________________
शालाकारां सभाकारां वर्तुलां चतुरश्रकाम् ॥ ९ ॥ भूपालस्येच्छया वापि राजकार्यानुकूलतः । कोशागारयुतां देश्यां कल्पयेच सदेवताम् ॥ १० ॥ चक्रवर्तेः पट्टभाजी युवराजस्य भूभुजः ।। नरेन्द्रस्य क्षत्रियस्य महाराजस्य भूपतेः ॥ ११ ॥ सामन्तस्य महीनेतुरासनेन समुज्ज्वलाम् । पौरां तु न्याय शालाख्यां मानसूत्रेण कल्पवित् ॥ विभज्य स्थानभेदादीन्स्थापये ल्लक्षणान्विताम् ।
किश्चैतादृशीं तत्तद्देशेषु कल्पनीयां देश्यां न्यायशाला शालाकारनिर्मितिभा वा सभाकारनिर्मितिभाजं वा भूपालादिवाञ्छानुगुणं तत्तद्राजकार्यविचाराहोपशालासहित देशीयकोशागारनिर्माणयुक्ता व कल्पयेदित्यर्थः ।।
तत्र च वर्तुलानारत्व चतुरश्रत्वादिकल्पनाभेदश्च यजमानाधीन इति भावः । नात्र मतान्तरमाविष्क्रियते ॥ १० ॥
अथान्त्यायाः पौराया न्यायशालाया लभणमाह - चक्रवर्तेरित्यादिना । चक्रवर्तीत्यपरनामधारिणे सार्वभौमाय, पट्टधराय, युवराजाय, नरेन्द्राख्य क्षत्रियाय, महाराजाय, माण्डलि. काय, सामन्त भूपालाय च तादृशी पौरां न्यायशालां यथाक्रम स्थापयेदिति तच्छालानिवेशनाई क्षत्रियजातिभेदः कथितः ।