SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ २९९ तस्मात्सर्वप्रयत्नेन तां कुर्याल्लक्षणान्विताम् । समस्थलां सावयवां सदेवां शिल्पकल्पनैः ॥७॥ देश्या पौरोति सा न्यायसमा तु द्विविधा मता। जन्माधिष्ठानसंयुक्तां चतुर्दिग्द्वारभूषिताम् ॥ ८ ॥ नयवाद्यासनोपेतां सामन्तासनसंयुताम् । सहित यविद्भिर्भूभुजादिभिरेव जगतां श्रेयसे समाक्रमणीयम् । त एव भूपालास्तादृशसिह्मासनारोहणायाहा॑ भवन्तीति क्रमः॥ ___ तस्मात्तान्तु न्यायशाला समस्थलां साङ्गामष्टदिक्पालादिप्रतिकृतिमजुलां शिल्पी यथामानं कल्पयेदित्युपदेशः । सा च न्यायशाला देश्या पौरेति द्विविधा भवति । देशे भवा देश्या । राजधान्यादिपुरेषु कल्प्या पौरेत्यर्थः ॥ तत्राथाया न्यायशालाया लक्षणमाह-जन्माधिष्ठानमिति । जगतीपट्टपद्मदलकम्पवाजनादिरचनासंयुतनिर्मितिरुत्तुङ्गकल्पना अधिष्ठानमित्युच्यते । तल्लक्षणमप्रे वेद्यम् । पुरोभागे गमनागमनयोग्येन पश्चादिदशावधिकसोपानसंयुतेनाधिष्ठानकल्पनेन सहितां तां न्यायशाला स्थापयेत् ॥ किश्च पूर्वादिषु चतसृष्वपि दिक्षु चतुरिकल्पनसमेतां नयवादिनां निवेशार्हासनैर्युक्तां समुचितेषु समयेष्वागमनशीलानां सामन्तभूपालादीनामासनोपेताश्च कल्पयेदित्यर्थः ।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy