________________
२७३
द्वादशस्तम्भसंयुक्तं भवनं ज्ञेयमीरितम्
तत्र पचमप्रकारो यथा - सममानं चतुरश्रं स्तम्भचतुष्कं स्थापयित्वा तेषाञ्चतसृष्वपि दिक्षु स्तम्भौ द्वौ द्वौ स्थापनीयाविति ॥
षष्ठः प्रकारो यथा यथा - दिक्कोणेषु चतुर्षु विषमरहितं दृष्ट्यादेर्द्विद्विसंख्याकारकं स्तम्भत्रयस्थापनं कार्यमिति तत्क्रमः । तथा चाहत्य तत्र द्वादशस्तम्भ संख्या भवेदिति भावः ॥
सप्तमः प्रकाशे यथा - मध्यनिर्माणद्वारसमीपे पङ्क्तिरीत्या स्तम्भचतुष्कं स्थापयित्वा तत्पुरतः स्तम्भद्वयं पुनरपि तत्पुरतः पक्तिरीत्या स्तम्भचतुष्कं तत्पुरतश्च स्तम्भद्वयं करणीयमिति ॥
अष्टमः प्रकारो यथा— कोणाकारेण मानेन पक्षयोरुभयोरपि स्तम्भाष्टकं निर्माय द्वारसमीपे स्तम्भचतुष्कस्थापनमिति । अस्य प्रातिलोम्येन कल्पने नवमः प्रकारः स्पष्ट एव । दशमः प्रकारस्तु चापाकारेण मानेन पक्षयोरुभयोरपि स्तम्भाष्टकस्थापनं तत्पुरतः स्तम्भचतुष्ककलनमिति च तद्विवेकः ॥
एकादशः प्रकारस्तु पूर्वोक्तद्वारसमीपे पक्तितिद्वयेन स्तम्भाष्टकं तत्पुरतश्चतुरश्रमानं चतुःस्तम्भकल्पनमिति भावः । सर्वत्र पङक्तिरीतिस्तावदपसव्यभागस्थाने सव्यभागस्थाने च क्रमशः कल्पितरेखाक्षरादिवत् स्तम्भस्थापनक्रम इति आन्तरालिकी शिल्पव्यवस्था ||