________________
२७१
पूर्वपश्चिमयोर्भागपादं पार्थे द्वयन्तथा । अथवा पक्षयोरष्ट प्राच्यां वेदपदन्तु वा ॥ १६ ॥ मध्ये वेदपदं पूर्वप्रत्यग्भागे दिगनिकम् । अनुलोमेन युक्त्या च विविधस्थानभाक्पदम् ॥१७॥
अथ पूर्वभवनादिमेषु निर्माणेषु स्थापनीयस्तम्भद्वादशककल्पनरचनाक्रममाह - पूर्वपश्चिमयोरिति । सव्यापसव्ययोर्भागयो: पक्तिद्वयरीत्या स्तम्माष्टकं सममानं स्थापयित्वोभयोरपि पक्षयोस्तद्वाह्ये स्तम्भद्वयं स्थापनीयमित्याद्यः प्रकारः ।।
द्वितीयप्रकारस्तु-पूर्वोक्तरीत्या सव्यापसव्ययोः स्तम्भाष्टकं स्थापयित्वा मध्यनिर्माणद्वारसमीपस्थं स्तम्भचतुष्टयं स्थापयेदिति वक्रमः । अयमेव प्रकारः प्रातिलोम्येन कल्पितश्चेत तृतीयः प्रकारसंभवति । चतुर्थप्रकारस्तु मध्यनिर्माणद्वारसमीपे पक्तिद्वयरीत्या स्तम्भचतुष्कं तत्पुरतश्च तयैव रीत्या स्तम्भचतुकम् । एतेषां स्तम्भानामष्टानां मध्ये चतुरश्रमानं स्तम्भचतुष्कं स्थापनीयमिति तत्क्रमो बोध्यः ॥
किन 'अनुलोमेन युक्त्या च विविधस्थानमाक्पदम्' इति शास्त्रकारेण विश्वकर्मणोपदेशः कृतः। तस्मात्पञ्चमादिद्वादशप्रकारा अस्माभिरत्र प्रदर्यन्ते । किच लक्षणमिदं तावत्सर्वेष्वपि भवनादिस्थलेषु संयोजनीयमिति भावः ॥