________________
२६१
दिशात्रये द्वयं प्रोक्तं मध्ये स्तम्भचतुष्ककम् । पार्श्वयोर्वेदपादश्च पुरतो युग्मपादकम् ॥ १३ ॥ पुरतो नागपादन पश्चात्पादद्वयं तथा । सव्यापसव्ययोर्वेदपादं मण्डलनामकम् ॥ १४ ॥ पुरतो नामपादश्च शिल्पिभिः स्थाप्यमीरितम् । अनुलोमादितः स्थाप्यं दिक्स्तम्भभवन विदुः ॥ १५ ॥
इत्थं स्तम्भाष्टकस्थापनक्रममभिधायाधुना पूर्वभवने स्तम्भदशकस्थापनक्रमं व्यनक्ति-दिशात्रय इति । पूर्वप्रतिपादिते पूर्वभवनपुरास्थले स्तम्भचतुम्कं स्थापयित्वा तद्वहिः प्राच्या वा प्रतीच्यां वा दिशि स्तम्भस्थापनक्रममपहायावशिष्टे दिशात्रयस्थलेऽपि सममानभूमिस्थौ द्वौ द्वौ सम्भौ स्थापयेत् इत्याद्यः पक्षः ॥
द्वितीयतृतीयप्रकारौ तु सव्यभागे स्तम्भचतुष्कमपसव्यभागे च स्तम्भचतुष्कं स्थापयित्वा तत्पुरोभागे च स्तम्भवयं स्थापनीयम् । अत्राप्यनुलोमप्रतिलोमरीत्या प्रकारान्तरस्थापनश्च संभवतीति क्रमार्थो ज्ञेयः॥
एवं चतुर्थपञ्चमप्रकारौ वयो । यथा पुरोभागे पङ्क्तिद्वयरीत्या स्तम्भाष्टकं क्रमशः स्थापयित्वा, पश्चाद्भागे मुख्यनिर्माणाख्यमध्यनिर्माणद्वारसमीपे स्तम्भद्वयं स्थापनीयम् । अत्रापि स्थलबैपरीत्यात्प्रकारान्तरस्थापनञ्च ज्ञेयमिति चतुर्थ