________________
२४६
पुष्टिदं याम्यभाग्द्वारं प्रागुदग्भाग्जयप्रदम् ॥ ३ ॥ पश्चिमं धनधान्यादिवर्धकं पूर्ववक्त्रकम् । मेधाप्रदञ्च कथितं शास्त्रज्ञैर्मुनिपुङ्गवैः ॥ ४ ॥ क्षुद्राधिष्ठानसंयुक्तं सोपानालिसमन्वितम् ।
कल्पनानुगुणं निर्मापणीयमिति ग्रन्थान्तरे दृश्यते वचनम । तत्कल्पनशैलीमानादिकन्तु तत्रैव ज्ञेयमिति प्रकृतमनु सरामः ॥
तस्मात्तत्र तत्र यथासौकयं प्राप्तेषु वास्तुस्थलेषु निर्माणादौ विरचितेऽप्यमुं पूर्वभवनाख्य कल्पनाविशेषं शास्त्रोक्तमानोपेतं दक्षिणामुखभाजं कृत्वा तदिदं . कल्पनं निर्मितशेत तदा तद्वास्तुवास्तव्यानां शरीरपुष्टयादिकं वर्धत इति शास्त्रानुग्रहो बोध्यः ॥
प्राङ्मुखमुदङ्मुखश्च तत्रत्यं द्वारं विजयप्रदम , पश्चिममुखं धनधान्यादिवर्धकमिति च द्वारकल्पनफलनियमः । किञ्च वास्तुभूमिस्थं सर्वमपि द्वारं यदि प्राचीदिङ्मुखं कृतं तदा च तद्वास्तव्यानां मेधासुखादिवर्धकमिति च शास्त्रविश्वासपरयमिति भावः । तस्माच्छिल्पशास्त्रज्ञैः स्थपत्यादिभिर्निर्दिष्टस्थले द्वारस्थापनादि पूर्वक पूर्वभवनकल्पनमिदं कार्यमित्युपदेशः ॥ ४ ॥
अत एतादृशपूर्वभवनकल्पनन्तु साधारणैकदण्डप्रमाणोन्नत्यभाजा क्षुद्राधिष्ठानेन युतं पञ्चषसोपानादिभासुरं स्थापनीयम ।