________________
२८६
प्रामादिमेषु सर्वेषु गोविश्रान्तिस्थलादिकम् । खलञ्च निर्दिशेच्छिल्पी मानदण्डेन सर्वतः ॥ २१२ ॥
कालिकद्रव्यराशीनां विक्रयस्थानकं तथा । विदुषां परिषत्स्थानमपि कल्प्यं पुरादिषु ॥ २१३ ॥
एन्द्रजालिकभूमिश्च तथान्यांश्च विनिर्दिशेत् । इत्यादि बहुधा स्थान नगरादिषु कीर्तितम् ॥ विज्ञाय शिल्पी तत्सर्व स्थापयेन्नगरादिषु ।। २१४ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे
नगरलक्षणकथनं नाम नवमोऽध्यायः॥
गोमहिषादीनां विश्रान्तिस्थलम् , व्रीहितिल चणकाढकगोधूमादिसमीकरणाहां खलभूमि, तैलयन्त्रणस्थानञ्च यथाक्रममानं कल्पयेत् । किन नगरादिवास्तुस्थानेषु तेषु तेषु वारेषु मासेषु वा तत्तत्स्थलादागतबहुविधपण्यद्रव्यविक्रयस्थानं (660) च करणीयम् ॥
किश्च पुरादिषु विदुषां परिषत्सम्मेलनस्थानं, ऐन्द्रजालिकादिक्रीडाप्रदर्शनाईन स्थलं स्थापनयिम । इत्यादिबहुविधस्थान