SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ १७९ गणिका भवनश्रेणि मेषभागे प्रकीर्तिता ॥ १९० ॥ मत्स्यग्राहिगृहश्रेणिं पुष्पके तु प्रकल्पयेत् । चर्मकार गृहश्रेणिर्भागे दौवारिके मता ॥ १९९ ॥ अनशालास्तु विविधा भागाष्टकसमीपकाः । अथ गन्धर्वभागे वा तां शालान्तु प्रकल्पयेत् ॥ १९२ । आरामभूमिस्सुग्रीवे दन्तके मदिरागृहम् । रोगे पुरोहितस्थानं शोषके दर्शनालयम् ।। १९३ ।। गजशालां भुजङ्गे तु किन्नरे वाजिशालकाम् । भास्करे यात्रिकस्थानमीशाने द्यूतशालकाः || कारयेत्तु विधानेन तत्र तत्र महीपतिः || १९४ ॥ नटनर्तकादीनामालय श्रेणि, मेषभागे दासीभवनानि पुष्पकभागे मत्स्यग्राह्यादिनीच जातीनामालय श्रेणिं, दौवारिकभागे चर्मादिकार्यकराणामालय श्रेणिं च यथाक्रमं स्थापयेत् ॥ किञ्च पूर्वोकभूधररुद्रादिभागाष्टक एवावशिष्टे समुचिते स्थलविशेषे दीनदरिद्रेभ्यो विविधा अन्नशाला: प्रकल्पयेत् । अथवा गन्धर्वभागे तामन्नशालां स्थापयेदिति विकल्पः । सुप्रीवभागे आरामादिस्थानं, दन्तकभागे सुराविक्रयस्थानं, रोगभागे पुरोहितस्थानं च निर्दिशेत् ॥ कि शोषदेवभागेऽत्युन्नतं द्वादशतलाधिकोपेतं समन्ततो
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy