________________
१२०
नानाजातिजनाकीर्ण रक्षकैरपि रक्षितम् । नाम्नेदं पद्मकं प्रोक्तं वास्तुशास्त्रविशारदैः ॥ ४७ ॥
अथ द्वितीयस्य सर्वतोभद्रनगरस्य लक्षणम् ॥
सर्वतोभद्रनगरभूमिः परिखयावृता । दैर्ष्यायामादिमानन्तु पूर्ववत्परिकीर्तितम् ॥ ४८ ॥
एवं सर्वत्रापि क्रमः । ' यन्नोक्तं तत्तु सर्वव युक्त्या ज्ञेयं विशारदैः' इत्यष्टमाध्यायान्त्यलोकोत्तरीस्या ग्रामकार्यकरपुरकार्यकरकुलालाम्बष्ठादयः क्रयविक्रययोग्यपिण्यादयोऽन्ये च ये नगरकार्ययोग्या राजकार्यकरा लेखवाहकाः भृत्यादयः, ये तु स्वर्णकारादयस्तैस्सर्वैरपि समेतमिदं पद्मनगरमिति बोध्यम् । ताशोपजीविनां वणिजादीनां च गृहादीन्यथा स्थदानुगुणं कल्पयेदित्यर्थः । एतद्वचनगर्भितमेव । किंचेदं नगरं यामिकै रक्षकैश्च सततं रक्षणीयम् नानाजातिजनाकीर्णञ्च भवतीति स्पष्ट एव लक्षणवाक्यार्थः ॥ ४७ ॥
अथ द्वितीयस्य सर्वतोभद्रनगरम्य लक्षणमाह सर्वतोभद्रेति : सर्वतोभद्राख्यस्यास्य नगरम्य दैर्घ्ययामादिमानं तु पूर्ववदेव कीर्तितम् । पद्मनगरस्य यन्मानमुक्तं तदित्यर्थः । यथास्य नगरस्य वास्तु भूमिश्चतुरश्रा, प्राक्नत्यग्भागयोः नृपदण्डसहस्रं मानं, तथा दक्षिणोत्तरयोरपि भागयोर्नृपदण्ड सहस्रकमिति ।
Othe