________________
११९
शतद्वयं प्रतोलीनां संख्या चात्र प्रकीर्तिता । वीथीनां क्षुद्रवथीनां संख्यानेका समन्ततः ॥ ४४ ॥ ईशाने भूधरे चैव विप्राणान्तु गृहस्थितिः । मुख्यशालाश्च याः प्रोक्ता विपण्यश्व विशेषतः ॥ ४५ ॥
सर्वतः कारयेद्दिक्षु यथा भूलाभतो बुधः । गोपुरादिसमोपेतदेव हन्तु रुद्रके ॥ ४६ ॥
योरिति । एतादृशराजवीथी चतुष्कस्य वैशाल्यं तु इतरवीध्यपेक्षया द्विगुणितमान कार्यम् । सुवया निर्मितासौधाः । तादृशसौबोज्ज्वलैर्भनादिभिरुपगतैस्समन्विता प्रतोलीत्युच्यते । तादृशप्रतोदीनां शतद्वयावधीनामत्र नगरे निर्माणमभिहितं भवति । तिर्यग्वीथिकानाम्नी रुपवीथी क्षुद्रवीयीश्च बह्वीस्तत्र तत्र यथास्थलविभवं कल्पयेत् । किञ्च नगरेऽस्मिन्नीशानभागे, भूधरभागे च ब्राह्मणानां सदनक्कल्पनीयम् । नृपहर्म्यन्तु आपदेवस्य भागे वा वासवभागे वा स्थापनीयम् । वह्निदेवादिदन्तदेवान्तस्थलविशेषभागेषु वैश्यशूद्रादीनां निलयादिः कार्यः ॥
न्यायशाला पाठशाला वैद्यशालाचित्रशालादयस्तु तत्र तत्र दिग्भागे यथाभूलाभवैशाल्यादिसहिताः कार्यः । गोपुरमण्टपटाकादि सहितमीश्वरभवनन्तु नगरस्यास्य रुद्रभागे रुद्रदेवभागे कल्पनीयम् । अत्रोक्तमूवरादिभागबोधस्तु पूर्वलिखितचतुरश्र - वास्तु मण्डल निरीक्षणेन सुलभलभ्यः ॥