________________
११३
अश्विनौ यमलो दृष्टिः पक्षो बाहुः करस्तथा ॥ २६ ॥ संख्याद्वयार्थजनको भल्लाटो नायको मतः । गुणः कालः पावकश्च लोकश्च भुवनं तथा ॥ २७॥ संख्यात्रयार्थजनको मृगदेवोऽधिपो मतः । श्रुतिस्समुद्रो वर्णश्च दिग्युगायनकन्तथा ॥ २८ ॥
नेतृपर्यायवाचकाश्च प्रमाणवचनपठनप्रकारेण एकसंख्याबोधका इत्यर्थः ॥
किञ्च ‘चन्द्रसंख्या क्षेपणन्तु भूमिसंख्या गलस्तथा' इत्यादिवचनानामेव संख्या ऊह्या । एवमुत्तरत्रापि बोध्यम् । एता. दृशकसंख्यार्थपदानां सूर्योऽधिपतिरिति शास्त्रनियमः ॥ .
एवं नासत्यावश्विनौ दसौ यमलो यमौ युग्मावित्यादिवाचकाच,तथा लोचनं नयनं नेत्रं दृष्टिरित्यादिदृष्टिपर्यायवाचकाश्च, पूर्वपक्षापरपक्षौ बाहुः करो भुज इत्यादिभुजपर्यायवाचकाश्च संख्याद्वयबोधकाः । एतादृशसंख्याद्वय पदानां भल्लाटदेवोऽधिपतिः॥
एवमग्निर्वैश्वानरो धनञ्जयोऽनलः पावक इत्याद्यग्निपर्यायवाचकाच, तथा 'लोका', 'जगती', 'जगत्', 'भुवनं', गुणः', 'कालः' इत्यादिवाच काश्च संख्यात्रयबोधकाः । अस्यास्संख्याया मृगदेवोऽधिपतिः ॥
SE. 15