________________
१११
जन्मभूमिदारिश्च जगती च वसुन्धरा । मेदिनी विपुला माद्याः कल्पनारम्भवाचकाः ॥ पादाङ्घ्रिचरणाद्यास्तु स्तंभार्थद्योतका मताः । क्षेपणं पट्टिका पद्मः कर्णो वाजनकन्धरौ ॥ २१ ॥ कुमुदः कुम्भकश्चैव कीलश्च मकरस्तथा। प्रतिमान्तरितालिङ्गसोपानप्रतिवाजनाः ॥ २२ ॥
इत्यादिन्यूनत्वविषमत्वनिरासकं समसंख्यागणकमिति ! एवं मानमानान्तरालिकभेदादिश्च शिल्पिभिरवश्यं ज्ञेय इत्यर्थः ॥१९॥
एवं तत्रतत्रोक्तसंकेतसंख्यादिमानं पर्यायवाचकार्थश्च ज्ञेयः । ते च प्रकरणवशादर्थान्तरसंख्यान्तरनिवेदिनः । यथा 'भूः', 'भूमि', 'रसा', 'विश्वम्भरा', 'धरित्री', इत्यादिपदानि कचित्प्रमाणवाक्येषु भूम्या उपरि कल्प्यमानभित्त्यधिष्ठानादिकल्पननिर्माणारम्भस्थलार्थकानि । अन्यत्र तान्येव भमिरचला विश्वम्भरेत्यादिपदानि एकसंख्यार्थद्योतकानि । एवमेकमेव वचनं कचित्संख्यावाचकत्वेन, काचन्निर्माणारम्भस्थलनिवेदकत्वेन च भानाच्छिल्पिवगैरित्यादिप्रकरणार्थश्च सूक्ष्म ज्ञेयः । 'पादः', ' अधिः ', 'चरणः', इत्यादयः स्तम्भपर्यायवाचकाः । क्षेपणं', 'पट्टिका', 'पट्टः', 'पद्मः', 'कर्णः', 'वाजनः', 'कन्धरः', 'कुमुदः', 'कुम्भः', 'कीलः',