________________
१०३
पद्मादि नगरीष्वेवं तत्तद्भागाधिदेवताः । एषां नाम्नेह निर्दिष्टं यत्स्थलं पुरलक्षणम् । ज्ञात्वा तत्सकलं शिल्पी कल्पनं कल्पयेत्क्रमात् ॥ १७॥
सुखबोधायात्र लिख्यते । यथा पूर्वपश्चिमयो रेखापट्कं विलिख्य तथैव दक्षिणात्तरयोस्सममानं रेखाषट्के च विलिखिते चतुरश्रवास्तुमण्डलभूभागाः पञ्चविंशतिकोष्ठभाजो भवन्ति । तेषु कोष्ठेषु पूर्वोक्तक्रम संख्यया ईशानदिशमारभ्य प्राथमिके कोठे आकाशदेव द्वितीय कोष्ठे पवनदेवस्तृतीयकोष्ठे मित्रदेव इत्यादिक्रमेण विलिख्य त एव तत्तद्भागाधिपा इति क्रमशो ज्ञेयाः । एवमेव पूर्वपश्चिमयो रेखापञ्चकं विलिख्य दक्षिणोत्तरयोः रेखा के सममाने लिखिते सति तदा दीर्घवास्तुभूभागाः विंशतिकोष्ठभाजो भवेयुः । तेषु कोष्ठेषु पूर्ववदाकाशादिविंशतिदेवा लेख्या: । अनेनैव प्रकारेण पूर्वपश्चिमयो रेखात्रयं विलिख्य दक्षिणोत्तरयोश्च रेखात्रये लिखिते मण्डलवास्तुभागाः स्फुटाः । तत्रत्यकोष्ठेषु तदुक्तदेवांश्च लिखेदित्यर्थः । सर्वेष्वप्येतेषु वास्तुषु मध्यभूस्थानं वास्तुपुरुपस्थानमिति च विज्ञेयम् । एतेषां मण्डलञ्चतुर्थाध्यायोक्तरीत्या भल्लादादिदेवसमेतं देवालयवास्तुमण्डलं सप्तमाध्याये नित्यमङ्गलग्रामलक्षणोक्तवासवादिदेव सहितं मनुष्यवास्तु मण्डलं च क्रमादत्र लिख्यते । यथा