________________
१०१
रुद्रो रुद्रजयश्वोभौ भृङ्गराजश्च भृङ्गकः । इन्द्र इन्द्रजयस्तथा ॥ ११ ॥
आपश्चैवापवत्
ईशानकोणाद्यपि यमलौ संप्रकीर्तिती ।
आकाशः पवनो मेषो गन्धर्वो दन्तकस्तथा ।। १२ ।। रोग शोषः किन्नरश्च भास्करो भूधरस्तथा । पुष्पकच भुजङ्गश्च सावित्रो रविसोमकौ ॥ १३ ॥ वह्निदेव मित्रो दौवारिकस्तथा । सुग्रीवश्व इमे देवाः दीर्घवास्त्वधिपा मताः ॥ १४ ॥
पञ्चविंशति संख्याका इमे देवा उत्तरपूर्वी दिशमारभ्य प्रादक्षिण्यक्रमेण चतुरश्रवास्तुभूभागाधिपाः कथिताः ॥
अत्रोक्ते देववर्गे रुद्रभृङ्गापेन्द्रा इमे देवाश्चत्वारो यमलौ । तस्मान्नामान्तरभाजश्व । यथा रुद्रो रुद्रजयः, भृङ्गो भृङ्गराजः, आप आपवत्सः, इन्द्र इन्द्रजय इति यमलभूता इमे सर्वेष्वपि वस्तुष्वीशानादिचतुर्दिक्कोणाधिपाः प्रोक्ताः ॥ ११ ॥
देववर्ग नामकथनेन
अथ द्वितीयं दीर्घवास्तुभूभागं
आकाश इति ॥
आकाशदेवः, पवनदेवो, मेषदेवो, गन्धर्वदेवो, दन्तदेवो, रोगदेव शोषदेव, किन्नरदेवो, भास्करदेवो, भूधरदेवः, पुष्पकदेवो, भुजङ्गदेवस्सावित्रदेवो, रविदेवशशि देवी, भल्लाद
व्यनक्ति
-