________________
द्रव्यनाशश्चापयशो भवत्येव न संशयः । तस्मान्मानं शिल्पिवगैरवश्यं ज्ञेयमीरितम् ।। ७१ ॥
अथ अगुलादिमानलक्षणम् ॥
परमाण्यादिमानन्तु प्रसिद्धं सुरसंसदि । न ग्राह्यं नापि विज्ञेयं मानवैस्तु कदाचन ।। ७२ ॥
तम्मान्मानवमानन्तु प्रोच्यते फलदायि तत् । शालिनीहिस्तु सर्वत्र सिद्धमानोदयो मतः ॥ ७३ ॥
पूर्व स्वर्गलोके गुरुणा प्रोक्तं मानमिन्द्रः पुनरपि बहुविधं व्याचकार । तदेव नन्दिदेवेन भगवता पुनरपि बहुविधमाविष्कृतम् । महर्षिणा नारदमुनिना च पुनरपि तदेव मानं बहुप्रकारमुक्तमित्युक्तत्वात प्रथमतो गुरुशिल्पशास्त्रं, तदनु मघवच्छिल्पं, ततो नन्दिशिल्लं, पश्चान्नारदशिल्पशास्त्रञ्च क्रमादेवं सञ्जातमित्युग्नेयम् । देव मानुपभूपालेत्यादिः स्पष्टार्थः ॥ ७१ ॥
परमाण्यादीति । यत् परमाण्वादिमानं परमावणुवालाग्रस्थधूल्यादिमानं सुरलोके प्रसिद्ध प्रमाणम् । तत्सर्वथा मानवैन ग्राह्यमेव । तस्मात्सर्वत्र वास्तुकर्मणि शस्तं सर्वैरपि सुलभवेद्यं मानवं मानमेवोच्यते । यथा -- ब्रह्मसृष्टिषु शालिनीहिस्तावत् गुञ्जाफलवत् सर्वदेशेष्वपि सममान एवं