SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ५९ अथ द्वितीयस्य प्रस्तरग्रामस्य लक्षणम् ॥ प्राक्प्रतीचीप्रतोल्यस्तु चतस्रः संमुखान्विताः । तथैव यत्र संभक्ता दक्षिणाधनदाशयोः ॥ १२ ॥ मध्यगा सैव वीथी तु मध्यवीथीति गद्यते । मध्यभागस्थितं शर्वमन्दिरं सुन्दराकृति ॥ १३ ॥ परिघाकारवीथी वा परितः परिघापि वा। पूर्वद्वारसमोपेतं प्रत्यग्भागजलाशयम् ॥ १४ ॥ अथ द्वितीयस्य प्रस्तरग्रामस्य लक्षणमाह - प्रागित्यादिना । यत्र ग्रामे प्राची दिशमारभ्य वरुणदिग्गामिन्यश्चतस्रो वीथ्यस्तथैव दक्षिणां दिशमारभ्योदीचीदिग्गामिन्यः चतम्रो वीथ्यो वर्तन्ते, सोऽयं ग्रामो नाना प्रस्तरमाम इति भण्यते ॥ अस्मिन्प्रस्तरनामे सर्वा अपि वीथ्यः परस्परं सम्मुख. गृहान्विताः कार्याः । किश्चात्र सर्वत्र वीथीषु मध्यगामिनी या तिर्यग्वीथी तस्या एव मध्यवीथीति व्यवहार इति भावः । प्रामस्यास्य मध्यभाग एव शिवस्य मन्दिरनिर्माणकार्यम् । किश्चामुं ग्राम परितो लघुपरिखां वा परिखाकारवीथर्थी वा कारयेत् । अपि च ऐन्द्रगामेव दिशायामस्य प्रामस्य मुख्यमार्गकल्पनमित्युक्तत्वात् अस्यैन्द्रदिग्गतो मुख्यो मार्ग एक एष B... 7
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy