________________
दक्षिणायनमासेषु छाया चोत्तरगा भवेत् । छायामानवशादेवमालानि विसर्जयेत् ।। २० ॥ शिष्टच्छायाप्रसारण सम्यक्प्राचीं समादिशेत् । विन्ध्यस्य दक्षिणे देशेष्वेवं प्राचीविनिर्णयः ।। आर्यावर्तस्थदेशानां प्राचीनिर्णय उच्यते । मकरादिचतुर्मासेष्वेव छायाङगुला भवेत् ॥ २२ ।। वृषभस्थे रवौ शङ्कोश्छाया तु चतुरङ्गुला। मिथुनस्थे रवौ शङ्कोश्छाया स्याच षडङ्गुला ॥ २३ ॥
एवंप्रकारेण शकुस्थापने कृते तत्तन्मासेषु तत्तद्भागे व्यक्ता द्वयगुलादिसूर्यच्छायां गणने विसृज्य पूर्वोक्तमण्डलमध्यभागप्रमाणिकां रेखामालिख्य तल्लेखोपझं सूत्रप्रसारं कृत्वा तद्वारा प्राच्यादिदिनिर्णयो ज्ञेयः । प्रकारोऽयं विन्ध्यस्य दक्षिणभागस्थितेषु केरलपाण्ड्यचोलान्ध्रकलिङ्गोत्कलकर्णाटकुन्तलमहाराष्ट्रसौवीरादिदेशेषु शिल्पिवयरनुष्ठेय इति भावः ॥
अथार्यावर्तस्थितेषु प्राग्ज्योतिषनेपालवङ्गाङ्गकोसलशूरसेनपाञ्चालविराटविदर्भकुरुकेकयादिषु देशेषु कल्प्यो विनिर्णयक्रम उच्यते- आर्यावर्त इति । पूर्वोक्तप्रकारेण शकुस्थापने कृते पूर्वोक्तदेशेषु दिवाकरे मकरादिचतूराशिस्थिते शकुच्छाया तावदेकाकुला भवेत् । घृषभराशिङ्गते दिवाकरे शङ्कुच्छाया