________________
स्तुत्या परं नाभिमत हि भक्त्या स्मृत्या प्रणत्या च ततो भजामि । स्मरामि देवं प्रणमामि नित्य केनाप्युपायेन फल हि माध्यम् ॥ ततस्त्रिलोकी - नगराधिदेवं नित्यं पर ज्योतिरनन्त- शक्तिम् । अपुण्य-पापं पर- पुण्य-हेतु नमाम्यह वन्द्यमवन्दितारम् ॥ अशव्द मस्पर्शमरूप गन्ध त्वा नीरस तद्विपयावबोधम् । सर्वस्य मातारममेयमन्यैजिनेन्द्रमस्मार्यमनुस्मरामि ॥ अगाध मन्यैर्मनसाप्यलङ्घयं निष्किञ्चन प्रार्थितमर्थवद्भिः । विश्वस्य पार तमदृष्टपार पति जनाना शरणं व्रजामि || त्रैलोक्य-दीक्षा-गुरवे नमस्ते यो वर्धमानोऽपि निजोन्नतोऽभूत् । प्राग्गण्डशैलः पुनरद्रि- कल्पः पश्चान्न मेरुः कुल-पर्वतोऽभूत् ॥ स्वयंप्रकाशस्य दिवा निशा वा न वाध्यता यस्य न वाधकत्वम् । न लाघवं गौरवमेकरूपं बन्दे विभुं कालकलामतीतम् ॥ इति स्तुतिं देव विधाय दैन्याद्वरं न याचे त्वमुपेक्षकोऽसि । छायातरं संश्रयतः स्वतः स्यात्कश्छायया याचितयात्मलाभः ॥ अथास्ति दित्सा यदि चोपरोधस्त्वय्येव सक्तां दिश भक्ति-बुद्धिम् करिष्यते देव तथा कृपां मे को वात्मपोष्ये सुमुखो न सूरिः ॥ वितरति विहिता यथाकथञ्चिजिन विनताय मनीषितानि भक्तिः त्वयि नुति - विषया पुनर्विशेषाद्दिशति सुखानि यशो'धनं जयं' च ॥