________________
जन पूजा पाठ सह
स नीरजाः स्यादपरोऽघवान्वा तद्दोपकीयैव न ते गुणित्वम् । स्वतोऽम्बुराशेर्महिमा न देव स्तोकापवादेन जलाशयस्य ॥ कर्मस्थितिं जन्तुरनेक-भूमिं नयत्यमु सा च परस्परस्य । त्वं नेतृ-भावं हि तयोर्भवान्धौ जिनेन्द्र नौ- नाविकयोरिवाख्यः॥ सुखाय दुःखानि गुणाय दोषान्धर्माय पापानि समाचरन्ति । तैलाय बालाः सिकता-समूहं निपीडयन्ति स्फुटमत्वदीयाः ॥ विपापहारं मणिमौषधानि मन्त्र समुद्दिश्य रसायनं च । भ्राम्यन्त्यहो न त्वमिति स्मरन्ति पर्याय-नामानि तवैव तानि ॥ चित्ते न किञ्चित्कृतवानसि त्वं देवः कृतश्चेतसि येन सर्वम् । हस्ते कृतं तेन जगद्विचित्र सुखेन जीवत्यपि चित्तवाह्यः ॥ त्रिकाल-तत्त्व त्वमवैस्त्रिलोकी स्वामीति संख्या-नियतेरमीषाम् । बोधाधिपत्यं प्रति नाभविष्यंस्तेऽन्येऽपि चेद्व्याप्स्यदमूनपीदम्।। नाकस्य पत्युः परिकम रम्यं नागम्यरूपस्य तवोपकारि । तस्यैव हेतु: स्वसुखस्य भानोरुद्विभ्रतच्छत्रमिवादरेण ॥ क्वोपेक्षकस्त्वं क्व सुखोपदेशः स चेत्किमिच्छा - प्रतिकूल-बादः । वासौ क वा सर्वजगत्प्रियत्व तन्नो यथातथ्यमवेविचं ते ॥ तुङ्गात्फलं यत्तदकिञ्चनाच प्राप्यं समृद्धान धनेश्वरादेः । निरम्भसोऽप्युच्चतमादिवाद्रनैकापि निर्याति धुनी पयोधेः ॥ त्रैलोक्य-सेवा-नियमाय दण्डं दवे यदिन्द्रो विनयेन तस्य । तत्प्रातिहार्यं भवतः कुतस्त्यं तत्कर्म - योगाद्यदि वा तवास्तु ॥ श्रिया परं पश्यति साधु निःस्वः श्रीमान्न कश्चित्कृपणं त्वदन्यः । यथा प्रकाश-स्थितमन्धकारम्थायीक्षतेऽसौ न तथा तमःस्थम्।।