________________
-
विपापहारस्तोत्रम्
[श्रीधनक्षय] स्वात्म-म्थितः सर्व-गतः समस्त-व्यापार-वेदी विनिवृत्त-सङ्गः। प्रवृहकालोऽप्यजरो वरेण्यः पायादपायात्पुरुषः पुराणः । परैरचिन्न्यं युग-भारमेकः स्तोतुं वहन्योगिभिरप्यशक्यः । स्तुत्योऽय मेऽसौ वृपभो न भानोः किमप्रवेशे विशति प्रदीपः।। तत्याज शक्रः शकनाभिमानं नाहं त्यजामि स्तवनानुवन्धम् । स्वल्पेन बोधेन ततोऽधिकार्थ वातायनेनेव निरूपयामि ॥ त्वं विश्वदृश्वा सकलेरदृश्यो विद्वानशेपं निखिलैरवेद्यः । वक्त कियान्कीदृश इत्यशक्यः स्तुतिस्ततोऽशक्तिकथा तवास्तु।।। व्यापीडित बालमिवात्म-दोर्परुल्लापता लोकमवापिपस्त्वम् । हिताहितान्वेपणमान्यभाजः सर्वस्य जन्तोरसि वालवैद्यः ।। दाता न हर्ता दिवसं विवस्वानद्यश्व इत्यच्युत दर्शिताशः । संव्याजमेवं गमयत्यशक्तः क्षणेन दत्सेऽभिमत नताय ॥६॥ उपति भक्त्या सुमुखः सुखानि त्वयि स्वभावाद्विमुखश्च दुःखम् । सदावदात-यतिरेकरूपस्तयोस्त्वमादर्श इवावभासि ||७|| अगाधतान्धेः स यतः पयोधिर्मरोश्च तुङ्गा प्रकृतिः स यत्र । द्यावापृथिव्योः पृथुता तथैव व्याप त्वदीया भवनान्तराणि ।। तवानवस्था परमार्थ-तत्त्वं त्वया न गीतः पुनरागमश्च । दृष्टं विहाय त्वमदृष्टमैपीविरुद्ध-वृत्तोऽपि समजसस्त्वम् ।। स्मरः मुदग्धो भवतेव तस्मिन्नद्भलितात्मा यदि नाम शम्भः । अशेत वृन्दोपहतोऽपि विष्णुः कि गृह्यते येन भवानजागः ।।