________________
!
३१२
त्वं नाथ जन्मजलधेर्विपराड् मुखोऽपि यत्तारयस्यसुमतो
निज-पृष्ठ-लग्नान् ।
युक्तं हि पार्थिव निपस्य सतस्तवैव चित्रं विभो यदसि कर्म विपाक-शून्यः ||२६||
विश्वश्वरोऽपि जन- पालक दुर्गतस्त्वं
किं वाक्षर - प्रकृतिरप्यलिपिस्त्वमीश । अज्ञानवत्यपि सदैव कथञ्चिदेव
ज्ञानं त्वयि स्फुरति विश्व-विकास- हेतुः ||३०|| प्राग्भार-सम्भृत-नभांसि रजांसि रोषाद्
उत्थापितानि कमठेन शठेन यानि । छायापि तैस्तव न नाथ हता हताशो
ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥ ३१ ॥ यद्गर्ज दूर्जित-घनौघमदभ्र - भीम
भ्रश्यत्तडिन्मुसल-मासल-घोरधारम् ।
दैत्येन मुक्तमथ दुस्तर वारि द
तेनैव तस्य जिन दुस्तर - वारि कृत्यम् ||३२||
ध्वस्तोर्ध्व-केश-विकृताकृति-मर्त्य-मुण्ड
प्रालम्बभृद्भयदवक्त्र - विनिर्यदग्निः । प्रेतव्रजः प्रति भवन्तमपीरितो यः
जन पूजा पाठ सप्रह
सोऽस्याभवत्प्रतिभवं भव- दुःख हेतुः ॥ ३३ ॥
धन्यास्त एव भुवनाधिप ये त्रिसन्ध्य
मारावयन्ति विधिवद्विधुतान्य-कृत्याः ।
भक्त्योल्लसत्पुलक-पक्ष्मल- देह-देशाः