________________
जैन पूजा पाठ संबर
पानीयमप्यमृतमित्यनुचिन्त्यमानं
किं नाम नो विप-विकारमपाकरोति ॥१७॥ त्वामेव वीत-तमसं परमादिनोऽपि
नूनं विभो हरि-हरादि-धिया प्रपन्नाः । किं काच-कामलिभिरीश सितोऽपि शहो।
नो गृह्यते विविध-वर्ण-विपर्ययेण ॥१८॥ धर्मोपदेश-समये सविधानुभावाट्
आस्तां जनो भवति ते तरुरप्यशोकः । अभ्युद्गते दिनपतौ समहीरुहोऽपि
किं वा विवोधमुपयाति न जीव-लोकः ॥१६॥ चित्रं विभो कथमवाड्मुख-वृन्तमेव
विष्वक्पतत्यविरला मुर-पुप्प-वृष्टिः । त्वद्गोचरे सुमनसां यदि वा मुनीश
गच्छन्ति नूनमघ एव हि बन्धनानि ॥२०॥ स्थाने गभीर-हृदयोदधि-सम्भवायाः
पीयूपतां तव गिरः समुदीरयन्ति । पीत्वा यतः परम-सम्मद-सङ्ग-भाजरे
भव्यो व्रजन्ति तरसाप्यजरामरत्वम् ।।२१॥ स्वामिन्सुदूरमवनम्य समुत्पतन्तो
मन्ये वदन्ति शुचयः सुर-चासरौघाः । येऽस्मै नति विदधते मुनि-पुङ्गवाय
ते नूनमूर्ध्व-गतयः खलु शुद्ध-भावाः ॥२२॥ श्यामं गभीर-गिरमुज्ज्वल-हेम-रत्न