SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ जैन पूजा पाठ सग्रह त्वं सर्वेशः सकृप इति च त्वामुपेतोऽस्मि भक्त्या यत्कर्तव्यं तदिह विषये देव एव प्रमाणम् ॥११॥ प्रापवं तव नुति-पदैर्जीवकेनोपदिष्टैः पापाचारी मरण-समये सारमेयोऽपि सौख्यम् । कः सन्देहो यदुपलभते वासब-श्री-प्रभूत्वं जल्पञ्जाप्यमणिभिरमलैस्त्वन्नमस्कार-चक्रम् ॥१२॥ शुद्धे ज्ञाने शुचिनि चरिते सत्यपि त्वय्यनीचा भक्तिनों चेदनवधि-सुखावञ्चिका कुश्चिकेयम् । शक्योद्घाटं भवति हि कथं मुक्ति-कामस्य पुंसो मुक्ति-द्वारं परिदृढ-महामोह-मुद्रा-कवाटम् ॥१३॥ प्रच्छन्नः खल्वयमघमयैरन्धकारैः समन्तात् __ पन्था मुक्तः स्थपुटित-पदः केश-गतै रगाथैः । तत्कस्तेन व्रजति सुखतो देव तत्त्वावभासी यद्यग्रेऽग्रे न भवति भवद्भारती-रत्न-दीपः ।।१४।। आत्म-ज्योतिनिधिरनवधिद्रष्टगनन्द-हेतुः कर्म-क्षोणी-पटल-पिहितोयोऽनवाप्यः परेषाम् । हस्ते कुर्वन्त्यनतिचिन्तस्तं भवद्भक्तिभाजः स्तोत्र न्ध-प्रकृति-परुषोदाम-धात्री-सनित्रः॥१५॥ प्रत्युत्पन्ना नय-हिमगिरेरायता चामृताब्धेः या देव त्वत्पद-कमलयोः संगता भक्ति-गगा। चेतस्तस्या मम रुजि-वशादालत क्षालितांहः कल्माष यद्भवति किमियं देव सन्देह-भूमिः ॥१६॥
SR No.010139
Book TitleSanatkumar Chavda Punyasmruti Granth
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages664
LanguageHindi
ClassificationSmruti_Granth
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy