________________
जन्माटव्यां कथमपि मया देव दीर्घ भ्रमित्वा
प्राप्तवेयं तव नय-कथा स्फार-पीयूष-बापी। तस्या मध्ये हिमकर-हिमव्यूह-शीते नितान्त
निर्मनं मां न जहति कथं दुःख-दायोपतापाः ॥६॥ पाद-न्यासादपि च पुनतो यात्रया ते त्रिलोकी
हेमाभासो भवति सुरभिः श्रीनिवासश्च पद्मः। सर्वाङ्गेण स्पृशति भगवंस्त्वय्यशेष मनो मे
श्रेयः किं तत्स्वयमहरहर्यन्न मामभ्युपैति ॥७॥ एश्यन्तं त्वद्वचनममृतं भक्ति-पाच्या पियन्तं
कारण्यात्पुरुषमसमानन्द-धाम प्रविष्टम् । त्वां दुर्वार-स्मर-मद-हरं त्वत्प्रसादैक-भूमि
ऋराकाराः कथमिवरुजा-कण्टका निलुंठन्ति ।।८।। पाषाणात्मा तदितरसमः केवलं रत्न-मूर्तिः
मानस्तम्भो भवति च परस्तादृशो रत्न-वर्गः। दृष्टि-प्राप्तो हरति स कथं मान-रोगं नराणां
प्रत्यासत्तिर्यदि न भवतस्तस्य तच्छक्ति-हेतुः ॥६॥ हृद्यः प्राप्तो मरुदपि भवन्मूर्ति-शैलोपवाही
सद्यः पुंसां निरवधि-रुजा-धूलिवन्धं धुनोति । ध्यानाहूतो हृदय-कमलं यस्य तु त्वं प्रविष्टः
तस्याशक्यः क इह भवने देव लोकोपकारः ॥१०॥ जानासि त्वं मम भव-भवे यच यादृक्च दुःखं .
जातं यस्य स्मरणमपि मे शस्त्रवनिष्पिनष्टि ।