________________
तव जिन चरणाब्ज-युगं करुणामृत - शीतलं यावत् । संसार-ताप-तप्तः करोमि हृदि तावदेव सुखी ॥ १६ ॥ जगदेक-शरण भगवन् नौमि श्रीपद्मनन्दित - गुणौघ । किं चहुना कुरु करुणामत्र जने शरणमापन्ने ॥२०॥
[ परिपुष्पाञ्जलिं क्षिपामि ]
विसर्जन संस्कृत
ज्ञानतोऽज्ञानतो वापि शास्त्रोक्तं न कृतं मया । तत्सवं पूर्णमेवास्तु त्वत्प्रसादाज्जिनेश्वर ! ॥ १ ॥ आह्नानं नैव जानामि नैव जानामि पूजनं । विसर्जनं न जानामि क्षमस्व परमेश्वर ! ॥ २ ॥ मन्त्रहीनं क्रियाहीनं द्रव्यहीनं तथैव च । तत्सवं क्षम्यतां देव रक्ष रक्ष जिनेश्वर ! ॥ ३॥ आहूता ये पुरा देवा लव्धभागा यथाक्रमम् । ते मयाऽभ्यर्चिता भक्त्या सर्वे यांतु यथास्थितं ॥४॥ सर्वमंगल मांगल्यं सर्व कल्याणकारकम् । प्रधानं सर्वधर्माणां जैनं जयतु शासनम् ॥ ५ ॥