________________
जेन पूजा पाठ सप्रह
७ ॐ आं क्रीं ह्रीं कुवेर आगच्छ आगच्छ कुबेराय स्वाहा । ___ ८ ॐआं क्रौंहीं ऐशान आगच्छ आगच्छ ऐशानाय स्वाहा।
है ॐआं क्रौं ही धरणीन्द्र आगच्छ आ० धरणीन्द्राय स्वाहा।। १० ॐ आं क्रौं ही सोम आगच्छ आगच्छ सोमाय स्वाहा ।
इति टिक्पालमन्त्रा. दध्युज्ज्वलाक्षत-मनोहर-पुष्प-दीपः
पात्रार्पितं प्रतिदिनं महतादरेण । त्रैलोक्य-मङ्गल सुखालय-कामदाह
मारार्तिकं तव विभोरवतारयामि ॥ [पात्रापितैर्दधितण्डुलपुष्पदीपैर्जिनत्यारार्तिकावतरणम् ]
यं पाण्डुकामल-शिलागतमादिदेव
मस्नापयन्सुरवराः सुरशैलमूर्ध्नि । कल्याणमीप्सुरहमनत-तोय-पुष्पैः
संभावयामि पुर एव तदीय-विम्बम् ॥ [जलाक्षतपुष्पाणि निक्षिप्य श्रीवर्णे प्रतिमास्थापनम् ] सत्पल्लवार्चित-मुखान्कलधौतरौप्य
ताम्रारकूट-घटितान्पयसा सुपूर्णान् । संवाह्यतामिव गतांश्चतुरः समुद्रान् ।
संस्थापयामि कलशाञ्जिनवेदिकान्ते ॥१०॥ आम्रादिपल्लवशोभितमुखाश्चतु कलशान् पीठचतुःकोणेषु स्थापयेत् ।