________________
मन पूजा पाठ समह
२१५
परे केवलिनः || ३= ॥ पृथक्त्वैकत्ववितर्क -सूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवर्तीनि ॥ ३६ ॥ त्र्येकयोग-काययोगायोगानाम्॥ ४० ॥ एकाश्रये सवितर्क- वीचारे पूर्वे ॥ ४१॥ अवीचारं द्वितीयम्॥४२॥ वितर्कः श्रुतम्॥ ४३ ॥ वीचारोऽर्थ-व्यञ्जनयोग - संक्रान्तिः ||१४|| सम्यग्दृष्टि-श्रावक-विरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्त- मोह पक - क्षीणमोह-जिनाः क्रमशोऽसंख्येयगुण-निर्जराः ॥ ४५ ॥ पुलाक- चकुश-कुशीलनिर्ग्रन्थ- स्नातका निर्ग्रन्थाः ॥ ४६ ॥ संयम - श्रुत- प्रतिसेवना-तीर्थलिङ्ग - लेश्योपपाद-स्थान- विकल्पतः साध्याः || ४७||
इति तत्त्वार्थाधिगमे मोक्षशास्त्रे नवमोऽध्याय ॥६॥ मोहक्षयाज्ज्ञान-दर्शनावरणान्तराय - नयाच्च केवलम् ॥ १ ॥ बन्वहेत्वभाव-निर्जराभ्यां कृत्स्न- कर्म - विप्रमोक्षो मोक्षः ||२|| औपशमिकादि-भव्यत्वानां च ॥३॥ अन्यत्र केचलसम्यक्त्वज्ञान-दर्शन-सिद्धत्वेभ्यः ||४|| तदनन्तरमृर्ध्वं गच्छत्या लोकान्तात् || ५ || पूर्वप्रयोगादसङ्गत्वाद् बन्धच्छेदात्तथागतिपरिणामाच || ६ || आविद्धकुलालचक्रवद्व्यपगतले पाला बुबदेरण्डबीजवदनिशिखावच्च ||७|| धर्मास्तिकायाभावात् ||८|| क्षेत्रकाल - गति - लिङ्ग-तीर्थ चारित्र - प्रत्येकबुद्ध - चोषित - ज्ञानावगाहनान्तर-संख्याल्पबहुत्वतः साध्याः ॥६॥
sa aarafar मोक्षशास्त्रे दशमोऽध्याय ॥१०॥ कोटीश द्वादश चैव कोटयो लक्षाण्यशीतिस्त्र्यधिकानि चैव । पञ्चाशदष्टौ च सहस्रसख्यामेतत् श्रुतं पञ्चपद नमामि ॥ १ ॥