________________
মন ঘূমা বা মুস
२१३
JA
परा स्थितिः ॥१४|| सप्ततिर्मोहनीयस्य ॥१॥ विंशतिनामगोत्रयोः ॥१६॥ त्रयस्त्रिंशत्सागरोपमाण्यायुषः ॥१७॥ अपरा द्वादश-मुहर्ता वेदनीयस्य ॥१८॥ नाम-गोत्रयोरष्टौ ॥१६॥ शेषाणामन्तमुहर्ता॥२०॥विपाकोऽनुभवः।।२१॥स यथानाम।।२२ ततश्च निर्जरा ॥२३॥ नाम-प्रत्ययाः सर्वतो योग-विशेषावसूक्ष्मैक-क्षेत्रावगाह-स्थिताः सर्वात्म-प्रदेशेष्वनन्तानन्तप्रदेशाः ॥२४॥ सद्वेद्य-शुभायुर्नाम-गोत्राणि पुण्यम् ॥२॥ अतोऽन्यत्पापम् ॥२६॥
इति तत्त्वार्थाधिगमे मोक्षशास्त्रेऽष्टमोऽध्यायः ॥८॥
आस्रव-निरोधः संवरः।।१।। स गुप्ति-समिति-धर्मानुप्रेक्षापरीपहजय-चारित्रः ।।२।। तपसा निर्जरा च ॥३॥ सम्यग्योगनिग्रहो गुप्तिः ॥ ४॥ ईया-भाषणादाननिक्षेपोत्सर्गाः समितयः ॥५॥ उत्तम-क्षमा-मार्दवार्जव-शौच-सत्य-संयम-तपस्त्यागाकिञ्चन्य-ब्रह्मचर्याणि धर्मः॥६॥ अनित्याशरण-संसारैकत्वान्यत्वाशुच्यासवसंवरनिर्जरा-लोक-बोधिदुर्लभ-धर्मस्वाख्यातत्वानुचिन्तनमनुप्रेक्षाः ॥ ७॥ मार्गाच्यवन-निर्जरार्थ परिपोढन्याः परीपहाः ॥८॥ नुत्पिपासा-शीतोष्णदंशमशकनाग्न्यारति-स्त्री-वर्या-निपद्या-शय्याक्रोश-वध-याचनालामरोग-तृणस्पर्श-मल-सत्कारपुरस्कार-प्रज्ञाज्ञानादर्शनानि l सूक्ष्ममाम्पराय-च्छास्थवीतरागयोश्चतुर्दश ॥१०॥ एकादश जिने ॥११॥ वादरसाम्पराये सर्वे ॥१२॥ ज्ञानावरणे प्रज्ञा