________________
२१२
जन पूजा पाठ संग्रह
तद्विशेषः ॥३॥
इति तत्त्वार्थाधिगमे मोक्षशास्त्रे सप्तमोऽध्याय ||७||
मिथ्यादर्शनाविरति-प्रमाद-कषाय-योगा वन्धहेतवः।। सकपायत्वाजीवः कर्मणो योग्यान् पुद्गलानादत्ते सवन्धा२।। प्रकृति-स्थित्यनुभव-प्रदेशास्तद्विधयः ॥ ३॥ आयो ज्ञानदर्शनावरण-वेदनीय-मोहनीयायुर्नाम-गोत्रान्तरायाः ॥४॥ पञ्च-नव-द्वयष्टाविशति-चतुर्द्विचत्वारिशद्-द्वि-पञ्च-भेदा यथाक्रमम् ॥शामति-श्रतावधि-मनःपर्यय-केवलानाम् ।।६।। चक्षुरचनरवधि-केवलानां निद्रा-निद्रानिद्रा-प्रचला-प्रचलाप्रचलास्त्यानगृद्धयश्च ॥७॥ सदसवेद्य ॥८॥ दर्शन-चारित्र-मोहनीयाकषाय-कषायवेदनीयाख्यास्त्रि-द्वि-नव-पोडशभेदाः सम्यक्त्वमिथ्यात्व-तदुभयान्यकपाय-कषायौ हास्य-रत्यरति-शोक-भयजुगुप्सा-स्त्री-पुन्नपुंसक-वेदा अनन्तानुबन्ध्यप्रत्याख्यान-प्रत्याख्यान-संज्वलन-विकल्पाश्चैकशःक्रोध-मान-माया-लोभाः।। नारक-तैर्यग्योन-मानुप-दैवानि ॥ १०॥ गति-जाति-शरीराङ्गोपाङ्ग-निर्माण-बन्धन-संघात-संस्थान-संहनन-स्पर्श-रसगन्ध-वर्णानुपूर्व्यगुरुलधूपघात - परघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीर-त्रस-सुभग-सुस्वर-शुभ-सूक्ष्म-पर्याप्तिस्थिरादेय-यश कीर्ति-सेतराणितीर्थकरत्वं च॥११॥ उच्चैर्नीचैव ॥ १२ ॥ दान - लाभ- भोगोपभोग-वोर्याणम् ॥१३॥ आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपम-कोटीकोट्यः