________________
सम्यक्चारित्र-चिन्तामणि ततश्च क्लीववेवस्य कुर्यादुपशम तथा। अतीतेऽन्तर्मुहूर्ते च स्त्रीवेदं शमयत्यसो ॥ ४६ ॥ सतश्च मर्यवेवस्य मुक्त्वा नवकबन्धनम् । सत्तास्थं निखिलद्रव्यं साधं षट्नोकषायकः ॥ ४७ ॥ वेवस्य नबद्रव्यं वध्यमानं स्ववोषतः । पश्चात् समये समये गुणश्रेणीविधानतः॥४८॥ संज्वलनस्य रोषस्य नवबन्धं विमुच्य सः। सत्तास्थं संचितद्रव्यं शमयत्येव भावतः॥ ४९ ॥ पश्चादन्तर्मुहुर्तेन क्रोधं मध्यकषाययोः। शमयति ततः पश्चात् सांज्वलनं नवबन्धनम् ॥ ५० ॥ ततोऽसंख्यगुणश्रेण्या वर्धमानविशुद्धितः । सांज्वलनस्य मानस्य मुक्त्वा नवकबन्धनम् ।। ५१ । सत्तास्थ सकलद्रव्यं साधं मध्यकषाययोः । मानस्य निखिल द्रव्यं सत्तास्थं शमयत्यरम् ॥ ५२ ॥ ततोऽसंख्यगुणण्या वर्धमानो विशुद्धिभिः । अन्तर्मुहूर्तमात्रेण मायां मध्यकषाययोः ॥ ५३ ॥ शमयित्वाल्पकालेन मानस्य नवबन्धनम् । पश्चात् समये समयेऽसंख्यातगुणणित ॥५४॥ मायाया नवकं मुक्त्वा सत्तास्थं शमयेत्पुनः। अग्रेसरस्ततोभूत्वा मायां मध्यकषाययोः ॥ ५५ ॥ शमयेन्नवकं द्रव्यं मायायाश्च समावजन् । पश्चात् समये समये गुणधेणोविमागतः ।। ५६ ॥ कुर्वन्नुपशम नित्य वर्धमानविशुद्धितः। विवधत सूक्ष्मकृष्टि च भारहीन इवाभवत् ।। ५७ ॥ सज्वलनस्य लोभस्य मुक्स्वा नवकबन्धनम् । सत्तास्थ सकल द्रव्यं शमयत्येव पौरवात् ॥ ५८॥ पश्चावन्तर्मुहूर्तेन लोभं मध्यकषाययोः । शमयेद् विशुद्ध्या स्वस्या निवृत्तिकरणे स्थितः ॥ ५९ ॥ इत्थं मुक्त्वा नवद्रव्यमुच्छिष्टावलिकं तथा। शेषस्य मोहनीयस्य सर्वयोपशमो भवेत् ॥ ६॥ सूक्ष्मकृष्टिगतं लोभं वेदयन् दशमस्थितः । तस्याप्युपशम कृत्वा शान्तमोहस्थितो भवेत् ।। ६१ ॥