________________
२८
ओ हीं अनुत्तरोपपादकदशाङ्गाय जलं निर्वपामीति स्वाहा । ( इसीप्रकार चंदनादि चढाना )
लक्षत्रिनवतिषोडशसहस्रपदसत्पदं जलप्रमुखैः । नष्टमुष्ट्यादिकथकं प्रश्नव्याकरणमिदमर्चे ॥ १४ ॥ ओं ह्रीं प्रश्नव्याकरणाङ्गाय जलं निर्वपामीति स्वाहा । ( इसीप्रकार चंदनादि चढाना )
उदयोदीरणसत्ताविचारकं कर्मणां यजामि मुदा । नित्यं विपाकसूत्रं कोटिपदं चतुरशीतिलक्षपदम् ॥ ओं -हीं विपाकसूत्राङ्गाय जलं निर्वपामीति स्वाहा । ( इसीप्रकार चंदनादि चढाना )
इत्येकादशसर्ववित्प्रकथितान्यङ्गानि यः पूजयेद्रव्यो भूरि सुगन्धपुष्पनिचयैर्भक्त्या जिनोक्तौ रतः स स्यात्कर्मकलङ्कपङ्करहितो भव्याब्जसम्बोधने हंसः शंसित एव कर्मकुरिपुध्वंसै कशूरोजिनः ||१६|| ओं ह्रीं एकादशाङ्गेभ्यः पूर्णार्घ्यं निर्वपामीति स्वाहा । ( इसीप्रकार चंदनादि चढाना )
अथ दृष्टिवादनामधेयं द्वादशमङ्गं पञ्च प्रकारं पूज्यते । तत्र प्रथमप्रकारे पञ्चप्रकाराः पूज्यन्ते । चन्द्रायुर्गतिविभवप्ररूपिका पञ्चपदसहस्रयुता ॥