________________
जैन शिलालेख - संग्रह
[ २६५
१६ मानमिव नाकिनां ॥ ४३ ॥ तेषामतः श्रियः पात्रं ( सीय) कः श्रेष्टिभूषणं । मंडलकरमहादुर्गं भूषयामास भूतिना ॥ ४४ ॥ यो न्यायांकुरसेचनैकजलदः कोर्तेर्निधानं परं सौजन्यांबुजिनो विकासन रविः पापाद्विभेदे पविः । कारुण्यामृतवारिधेर्विलसने राकाशशांकोपमो नित्यं साधुजनोपकारकरणव्यापारबद्वादरः ॥४५॥ येनाकारि जितारिनेमिभवनं देवाद्विशृंगोदूधुरं चचत्कांचनचारुदंड कलश श्रेणीप्रमाभास्वरं । खेलत्-खेश्वर सुन्दरीश्रमभरं भंजद ध्वजोगीजनैर्धत्तेष्टापदशैलश्रृंग जिन भृत प्रोद्दाम सद्म श्रियं
॥ ४६ ॥ श्रीसीयकस्य मायें द्वे
१९२
सुतद्वयं ॥४७॥
१७ सौनागश्रीमामटामिधे । श्राधायास्तु त्रयः पुत्राः द्वितीयायाः पंचाचारपरायणात्ममतयः पंचांगमंत्रोज्वलाः पंचज्ञान विचारणासुचतुराः पंचेन्द्रियार्थोजयाः । श्रीमत्पचगुरुप्रणाममनसः पंचाणुशुद्धवता: पंचैते तनया गृही ( तवि ) नया: श्रीसीकश्रेष्ठिनः ॥ ४८|| आद्यः श्रीनागदेवोऽभूल्लोला कश्चाज्यलस्तथा । महीधरो देवधरो द्वावेतावन्यमातृजां ।। ४९ ।। उज्वलस्यांगजन्मानौ श्रीमदूदुर्लमलक्ष्मणौ । अभूतांभुवनोद्भासियो दुर्लमलक्ष्मणौ ||२०|| गांभीर्यं जलधे. स्थिरत्वमचला तेज१८ स्वितां भास्वतः सौम्यं चंद्रमसः शुचित्वममरस्रोतस्विनीतः परं । एकैकं परिगृह्य विश्वविदितो यो वेधसा सादरं मन्ये बीजकृते कृतः सुकृतिना सल्लोलक श्रेष्टिनः ॥ ५७ ॥ अथागमन्मं (दिर मे ) कीर्त : श्रीवि (ध्यव ) लीं धनधान्यवल्लीं । तत्रालु ( लोकं ह्यमितल्पसुप्तः ) कचिन्नरेशं पुरतः स्थितं सः ॥ ५२ ॥ उवाच कस्त्वं किमिहाभ्युपेत. कुतः स तं प्राह फणीश्वरोहं । पातालमूलात्तव देशनाय (श्री) पार्श्वनाथः स्वयमेध्यतीह ॥ ५३ ॥ प्रातस्तेन समुत्थाय न किंचन विवेचितं । स्वप्नस्यांत मनोभावा यतो वातादिदूषिताः ॥ ५४ ॥ लोला