________________
१२२
जैन-शिलालेख संग्रह हृत-बलाबलो-तप ....यश्च अमृतमयो भृत्यानां सुखमयो मित्राणां सुधामयो रामाणामुत्साहमयः प्रजानां विनयमयो गुरूणां नयस्स्व (६ अ) लद्-वृत्तीनां अग्रणी रसिकानां स्रष्टा काव्य-रचनानां उपदेष्टा नयानां द्रष्टा स्वामि-कार्याणां विद्वेष्टा कृत-दोषाणां यष्टा महा-मखानां परिमार्टा पापानां प्रष्टा निर्माण-हेतूनां परिकृष्टा श्रितागसाम् । अपि च ।
उदन्वानित्र गाम्भीर्ये विवस्वानिव तेजसि । शशलक्ष्मेव लावण्ये नभखानित्र यो बले ॥ मनोभूरिख सौरूप्ये मघवानित्र सम्पदि । सुरमन्त्रीव शास्त्रार्थे उशनेव च यो नये ॥ ग्रामे पुरे नदी-तीरे गिरौ द्वीपे सरोऽन्तिके । प्रावतयत् स्व-कीर्त्याभां योऽनेकं वसतिं प्रभुः ॥ स मान्यनगरे श्रीमान् श्रीविजयोऽकार [ य ] च्छुभम् । जिनेन्द्र-भवनं तुझं निर्मलं ख-महम्-समम् ॥ तस्य च प्रसाधिताशेप-सामन्त-चन्द्रस्य श्री-मारसिंहस्यानुज्ञया श्रीविजयो महानुभावः किषु-वेकर-ग्राममादाय मान्यपुर-विनिर्मिताय भगवदर्हदायतनाय अदादिति तस्य च ग्रामस्य ( यहाँ सीमाओंकी विस्तृत चर्चा आती है)। अपि च ।
आसीद(त्)-तोरणाचार्यः कोण्डकुन्दान्त्रयोद्भवः स नै [द ] द्विषये धीमान् शाल्मलीग्राममाश्रितः ॥ निराकृततमोऽरातिः स्थापयन् सत्पथे जनान् । खतेजोदयोतित-क्षोणिः चण्डाचरित्र यो बभौ ॥