________________
मण्णेका लेख
१२१ अपि च ।
यस्यैकस्यापि सर्व जगदपि स-रुषो नाग्रतम् स्थातुमीष्टे
दित्सा-सम्भूत-बुद्धेरपि नव निधयो यस्य नालं नृपस्य । जिहे तीवाभिमानात् कपट-विजयिनां यद्-धृतेर्नाकधाम्नाम् [ रा ] ज्ञां विज्ञातकीर्ति [स्स ] सकल-जगतां नन्दनो मारसिंहः।।
यश्च सतत-सम्पादित-कमलानन्दोऽप्यप्रचण्डकरः पुण्य-जन-सत्त्वसमेतोऽप्यनृशंस-मानसः मत्त-मातङ्ग-स्कन्ध-लालितोऽप्यति-शुचि-स्वभावः प्रिय-धनुरप्यमार्गणः समनुष्ठित-दण्ड-नीतिरप्यदण्डक्रम-गतिः ।। अपि च ।
धूसरीकुरुते यस्य चरणाम्भोज-जं रजः ।
प्रणतानन्त-सामन्त-चूडामणि-मधुव्रजम् ॥ तेन लो ( ५ ब) क-त्रिनेत्रापर-नामधेयेन समधिगत-यौवराज्यपदेन भगवन्सहस्र-किरण-चरण-नलिन-षट्चरणायमान-मानसेन ॥ तस्मिश्च प्रसाधिताशेष-सामन्त ......."अखण्ड गङ्ग-मण्डलमनुशासति श्रीमारसिंहाभिधाने आसीत् समस्त-सामन्त-सेनाधिपतिः परमार्हतः परमधार्मिकः मन्त्र-प्रभूत्साह-शक्ति-सम्पन्नः श्रीविजयो नाम यश्च सहस्रदीधितिरिव तिरोहिताखिल-पर-तेजः पर-तेजः-प्रसरोऽपि असन्तापित-भूतलः सुनाशीर इवाखण्डित-सकल-जनाज्ञोऽपि अगोत्र-भेदन-करः गुह इव शक्ति-समुत्सारिता-बग्र्गोऽपि अकृत-बल-भावःशिशिरगभस्तिरिव प्रह्लादनोद्योतनसमर्थोऽपि अदोपाश्रित-विग्रहः बारिराशिरिव अपरिमित-सत्वसमाश्रयोऽपि अपङ्क-मल-गृहीतः विनतानंद [न] इव अतिदूर-द [श ] नोऽपि अपिशिताशनः शतक्रतुरिव बुध-गुरु-मित्र-परिवृतोऽपि न [प] र-दार-रति-शप्तः झषकेतन इव खवशीकृत-सकल-जनोऽपि अप्र (प)