________________
एहोलेका लेख विधिवदुपचिताभिः शक्तिभिः शक्रकल्प
स्तिसृभिरपि गुणौधैः खैश्च माहाकुलाद्यैः । अनमदधिपतित्वं यो महाराष्ट्रकाणां
नवनवतिसहस्रनाममाजां त्रयाणाम् ॥ २५ ॥ गृहिणां स्वगुणैत्रिवर्गतुङ्गा विहितान्यक्षितिपालमानभङ्गाः । अभवन्नुपजातभीतिलिङ्गा यदनीकेन सकोसलाः कलिङ्गः ॥२६॥ पिष्टं पिष्टपुरं येन जातं दुर्गमदुर्गमम् । चित्रं यस्य कलेवृत्तं जातं दुर्गमदुर्गमम् ॥ २७ ॥ संनद्धवारण घटास्थगितान्तरालं
नानायुधक्षतनरक्षतजाङ्गरागम् । आसीजलं यदवमर्दितमभ्रगर्भा
केंणालमम्बरमिवोर्जिनसांध्यरागम् ॥ २८ ॥ उद्भूतामलचामरध्वजशतच्छन्नान्धकारैर्बलैः
शौर्योत्साहरसोद्धितारिमथनैर्मीलादिभिः पड्विधैः । आक्रान्तात्मबलोन्नतिं बलरजःसंछन्नकाञ्चीपुरः
प्राकारान्तरितप्रतापमकरोधः पल्लवानां पतिम् ॥२९॥ कावेरी द्रुतशफरीविलोलनेत्रा चोलानां सपदि जयोद्यतस्तस्य (८) । प्रश्चयोतन्मदगजसेतुरुद्धनीरा संस्पर्श परिहरति स्म रत्नराशेः ॥३०॥
चोलकेरलपाण्ड्यानां योऽभूत्तत्र महर्द्धये । पल्लवानीकनीहारतुहिनेतरदीधितिः ॥ ३१॥ उत्साहप्रभुमन्त्रशक्तिसहिते यस्मिन्समन्तादिशो
जित्वा भूमिपतीन्विसृज्य महितानाराध्य देवद्विजान् । शि०७