________________
जैन-शिलालेख-संग्रह क्तस्य मानव्यसगोत्रस्य हारितीपुत्रस्य प्रतिकृतच पारस्य विबुधप्रतिबिम्बानां कदम्बानां धर्ममहाराजस्य श्रीविजयशिवमृगेशवर्मणः विजयायुरोग्यैश्चर्यप्रवर्द्धनकरः संवत्सरः चतुर्थः वर्षापक्षः अष्टमः तिथिः पौर्णमासी अनयानुपूर्त्या अनेकजन्मान्तरोपाजितविपुलपुण्यस्कंधः सुविशुद्धपितृमातृवंशः उभयलोकप्रियहितकरानेकशास्त्रार्थतत्वविज्ञानविवेच्च ( ? ) ने विनिविष्टविशालोदारमतिः हस्त्यश्वारोहणप्रहरणादिषु व्यायामिकीषु भूमिषु यथावत्कृतश्रमः दक्षो दक्षिणः नयविनयकुशलः अनेकाहवाजितपरमदृढ़सत्वः उदात्तबुद्धिधैर्यवीर्य्यत्यागसम्पन्नः सुमहति समरसङ्कटे स्वभुजबलपराक्रमावाप्तविपुलैश्वयः सम्यक्प्रजापालनपरः स्वजनकुमुदवनप्रबोधनशशाङ्कः देवद्विजगुरुसाधुजनेभ्यः गोभूमिहिरण्यशयनाच्छादनानादिअनेकविधदाननित्यः विद्वत्सुहृत्स्वजनसामान्योपभुज्यमानमहाविभवः आदिकालराजवृत्तानुसारी धर्ममहाराजैः कदम्बानां श्रीविजयशिवमृगेशवर्मा कालवङ्गन्यामं त्रिधा विभज्य दत्तवान् । अत्र पूर्वमहच्छालापरमपुष्कलस्थाननिवासिभ्यः भगवदर्हन्महाजिनेन्द्रदेवताभ्य एको भागः, द्वितीयोहत्प्रोक्तमद्धर्मकरणपरस्य श्वेतपटमहाश्रमणसंघोपभोगाय, तृतीयो निर्ग्रन्थमहाश्रमणसंघोपभोगायेति । अत्र देवभाग धान्यदेवपूजावलिचरुदेवकमकरभग्नक्रियाप्रवत्तनाद्यर्थोपभोगाय । एतदेवं न्यायलब्ध देवभोगममयेन योभिरक्षति स तत्फलभाग्भवति, यो विनाशयेत् स पंचमहापातकसंयुक्तो भवति । उक्तश्च बहुभिर्वसुधा भुक्ता राजभिस्सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं । नरवरसेनापतिना लिखितं ।
[ई० ए०, जिल्द ७, पृ० ३७-३८, नं. ३७ ] १ इन प्रतिलिपियोंमें विसर्ग उस चिह्नके स्थानमें लिखा गया है जो कण्ठ्यवर्गों ( Gutturals) से पहले विसर्गकी जगह प्रयुक्त हुआ है। २ 'देवभागं समयेन' शुद्ध पाठ मालूम पड़ता है।