________________
नोणमंगलका लेख
५५ अनुवाद-५७ में वर्ष, शीतऋतुकी तीसरे महीनेके १३ वें दिन, इसदिन......
{ EI, II, n° XIV, n° 38 ]
नोणमाल-संस्कृत गुप्तकालसे पहिले, संभवतः ३७० ई० का
[नोणमंगलमें ताम्र-पत्रिकाओंपर ] [१ ब ] स्वस्ति नमम् सर्वज्ञाय ॥ जितं भगवता गत-घन-गगनाभेन पानामेन श्रीमज-जाह्नवेय-कुलामल-व्योमावभासन-भास्करस्य स्व-भुजजवज-जय-जनित-सुजन-जनपदस्य दारुणारिगण-विदारण-रणोपलब्धवण-विभूपण-भूपितम्य काण्वायनसगोत्रस्य श्रीमत्कोडणिवर्म-धर्ममहाधिराजस्य पुत्रस्य पितुरन्वागत-गुण-युक्तस्य विद्या-विनय-विहितवृत्तस्य
[२] सम्यक्-प्रजा-पालन-मात्राधिगत-राज्य-प्रयोजनस्य विद्वत्कविकाञ्चन-निकषोपल-भूतस्य विशेषतोऽप्यनवशेषस्य नीति-शास्त्रस्य वक्तृप्रयोक्तृकुशलस्य सुविभक्त-भक्त-भृत्यजनस्य दत्तक-सूत्र-वृत्ति-प्रणेतुः श्रीमन्माधववर्म-धर्म-महाधिराजस्य पुत्रस्य पितृ-पैतामह-गुणयुक्तस्य अनेक-चतुर्दन्त-युद्धावाप्त-चतुरुदधि-सलिलावादित-यशमः समद-द्विरदतुरगारोहणातिशयोत्पन्न-कर्मणः श्रीमद् हरिवर्मा-महाधिराजस्य पुत्रस्य गुरु-गो-ब्राह्मण-पूजकस्य नारायण-चरणानुध्या
[२ ब] तस्य श्रीमद्विष्णुगोप-महाधिराजस्य पुत्रेण पितुरन्वागतगुण-युक्तेन त्र्यम्बकचरणाम्भोरुहराजः( ज )पवित्रीकृतोत्तमाङ्गेन व्यायामोवृत्त-पीन-कठिनभुजद्वयेन ख-भुज-बल-पराक्रम-क्रय-क्रीत-राज्येन क्षुत्