________________
यशोurafra
इत्थं जिनेन्द्रागमसद्गुरून् वै प्रणम्य भक्त्या चरितं पवित्रं । वच्ये समासेन यशोधरस्य राज्ञो जनन्या सहितस्य चित्रं ॥ २१ ॥ श्रीसोमदेव हरिषेणसंज्ञेः श्रीवादिराजैश्च प्रभंजनैश्च । धनंजयैर्यत्कविपुष्पदन्तैः श्रीवासवाद्ये रिह सेनसंज्ञैः ॥२२॥ प्रकाशितं गद्य-पद्यबंधैः संक्षेपविस्तारसुगृहभावै । न्यायागमाध्यात्मविशिष्ट - शब्द-शास्त्राब्धिपारं प्रगतैर्महद्भिः ॥२३॥ कवीश्वरैर्वादिभिरप्यजेयैर्वागीश्वरै जीर्वगुरुप्रतुल्यैः ।
मया कथं तद्गदितुं प्रशक्यं स्वल्पेन बोधेन विशिष्टभावं ॥ २४ ॥ तथापि तद, गुण-प्रामस्मरणार्जितपुण्यतः ।
स्तोकं सारं प्रवच्यामि स्वस्य शक्त्यनुसारतः ||२५||
X
X
X
x
२२५
अन्तभाग :
चंपादिपुर्या. सविधे सुदेशे बंगाभिधासुन्दरतां दधाने । ख्याते पुरेऽकच्छ (ब) रनामके च चैत्यालये श्रीपुरुतीर्थपस्य ||१७|| श्रीमूलसंघे व सरस्वतीति गच्छे बलात्कारगणे प्रसिद्ध । श्री कुन्दकुन्दान्वयके यतीशः श्रीवादिभूषो जयतीह लोके ॥ ५८|| तद्गुरुबन्धु वनसमः पंकजकीत्तिः परमपवित्रः । सूरिपातो मदनविमुक्तः सद्गुणराशिर्जयतु चिरं सः ॥५६॥ शिष्यस्तयोर्ज्ञानसुकीर्तिनामा श्रीसूरिरत्राल्पसुशास्त्रवेत्ता । चरित्रमेतचितं च तेनाऽऽचन्द्रार्कतारं जयताद्धरिभ्यां ॥ ६० ॥ शते षोडशएकोनषष्ठिवत्सरके शुभे ।
5
माघे शुक्लेsपि पंचम्यां रचितं भृगुवासरे ॥ ६१ ॥ राजाधिराजisa तदा विभाति श्रीमानसिंहो जित- वैरिवर्गः 1 अनेकराजेन्द्रविनम्यपादः स्वदानसंतर्पित विश्वलोकः ॥६२॥ प्रतापसूर्यस्तपतीह यस्य द्विषां शिरस्सुप्रविधाय पादं ।
अन्याय - दुर्ध्वान्तमपास्य दूरं पद्माकरं यः प्रविकाशयेच्च ॥६३॥