________________
जैनग्रन्थ- प्रशस्तिसंग्रह
श्रीपद्मनन्दी कमतस्ततोऽभूत् मद्भव्यपद्मप्रविकाससूरः । are श्रीसकलादिकीर्तिः कीर्तिवजण्याप्तदिगंतरालः ॥८॥ पट्ट तदीये भुवनादिकीर्तिः तपोविधानाप्तसुकीर्तिमूर्तिम् । श्रीज्ञानभूषं मुनिपं तदीये पट्टे प्रबंदे विदितार्थतत्त्वम् ॥ १० ॥ पट्टे तदीये विजयादिकीर्तिः कामारिनिर्नाशनलब्धकीर्तिः । तदीयपट्टे शुभचन्द्रदेवः कवित्ववादित्वविधानदेवः ॥११॥ सुमतिकीर्तिरभूद्वरतत्पदे सुमतिसद्वृषदेशनतत्परः । सुगुणकीर्तिरिहास्य पदे वरे जयति सूरिरनेकगुणोत्करः ||१२||
२२४
तत्पट्टे वादिभूषाख्या विद्यते वदतांवरः । कर्णाटे यन्नृपैः पूज्यो जैनैर्जयतु मद्गुरुः ॥ १३ ॥ areer ज्ञानकीर्त्याख्योऽहं सूरिपदसंस्थितः । करिष्ये चरितसारं यशोधरमहीपतेः ॥१४॥ दोर्दण्डचण्डबलत्रासितशत्रुलोको रत्नादिदानपरिपोषितपात्रसंघः । दीनानुवृत्तिशरणागतदीर्घशोकः पृथ्व्यां बभूव नृपतिर्वर मानसिंहः ॥१५॥ दोर्दण्डचण्डबल त्रासितशत्रुलोको रत्नादिदानपरिपोषितपात्रोधः । दीनानुवृत्तिशरणागतदीर्घशोकः पृथ्व्यां बभूव नृपतिर्वरमानसिंह | १६ | तस्य क्षितीश्वरपतेरधिकारि [वर्ग:] श्रीजैनवेश्मकृत [दुर्लभ ] पुण्यधारी । यात्रादिधर्मशुभकर्मपथानुचारी, जैनो बभूव वनिजां वर इभ्यमुख्यः ॥१७॥ खण्डेलवालान्वय एव गोत्रे गोधाभिधे रूपसुचन्द्रपुत्रः । दाता गुणज्ञो जिनपूजनेन्द्र सिवारिधौतारिकदंबपंकः ॥ १८ ॥ रायात्कुबेरं मदनं स्वरूपेणार्क प्रतापेन विधुं सुसौम्यात् । ऐश्वर्यतां वासवमर्चयापि तिरस्करोतिीह जिनेन्द्रभक्तः ॥ १६ ॥ नानूसुनामा जगतीप्रसिद्धो या मौलिबद्धावनिनाथतुल्यः । स्ववंशवाताध्वविकारसूरोऽस्यप्रार्थनातो क्रियते मयैतत् ॥२०॥