________________
२०२
अन्तभाग :
जैनग्रन्थ-प्रशस्तिसंग्रह
मोक्षोपायमनन्यपुण्यममलज्ञानोदयं निर्मलम्, भन्यार्थं परमं प्रभेन्दुकृतिना व्यक्रः प्रसन्नैः पदैः । व्याख्यानं वरमात्मशासनमिदं व्यामोहविच्छेदतः, सूत्रार्थेषु कृतादरैरहरहश्चेत स्यलं चित्यताम् ॥१॥ इति श्रीश्रात्मानुशासनतिलकं प्रभाचन्द्राचार्यविरचितं सम्पूर्णम् । १३७. आराधनाकथाप्रबन्धः ( प्रभाचन्द्राचार्य }
आदिभाग:
प्रणम्य मोक्षप्रदमस्तदोषं, प्रकृष्टपुण्यप्रभवं जिनेन्द्रम् । वक्ष्ये ऽभव्य प्रतिबोधनार्थमाराधनासत्सुकथाप्रबन्धम् ॥ १॥
अन्तभागः
यैराराध्य चतुर्विधामनुपमामाराधनां निर्मलाम् । प्राप्तं सर्वसुखास्पदं निरुपमं स्वर्गापवर्गप्रदा । तेषां धर्मकथा-प्रपञ्चरचना स्वाराधना संस्थिता । स्थेयात् कर्मविशुद्धिहेतुरमला चन्द्रार्कतारावधि ॥१॥ सुकोमलैः सर्वसुखावबोधैः पदैः प्रभाचन्द्रकृतः प्रबन्धः । कल्याणकालेऽथ जिनेश्वराणां, सुरेन्द्रदन्तीव विराजतेऽसौ ॥२॥ श्रीजयसिंहदेवराज्ये श्रीमद्धारानिवासिना परापरपञ्चपरमेष्ठिप्रणामोपार्जिताऽमलपुण्यनिराकृतनिखिलमलकलंकेनश्रीमत्प्रभाचंद्रपण्डितेन धर
धनासत्कथाप्रबन्धः कृतः ।
१३८. प्रवचन सरोजभास्कर ( प्रभाचन्द्राचार्य ) आदिभाग:
वीरं प्रवचनसारं निखिलार्थं निर्मलजनानन्दम् ।
वच्ये सुखावबोधं निर्वाणपदं प्रणम्याप्तम् ॥१॥
श्री कुन्दकुन्दाचार्यः सकललोकोपकारकं मोक्षमार्गमध्ययनरुचिविनेया