________________
१७८
जैनग्रन्थ प्रशस्तिसग्रह
स्तुवे माधव भट्टस्य वाक्यं सन्देहमर्दकं । येन जैनेन्द्र सिद्धान्तं दर्शितं भरतावनौ ||२८|| जीया जिनसेनश्च कविकोटिशिरोमणिः । श्ररीरचन्महाशास्त्रं पुराणं हरिवंशकं ॥ २६ ॥ जिनसेनो लघुर्जीयात् पुराणरचने क्षमः । येन महापुराणाख्यमकरोद्विबुधाप्रणीः ॥ ३० ॥ येन श्रीधर्म सेनेनाजी जयन्मकरध्वजः । विमलादिसेनको तावद्बभूव क्षितिविश्रुतः ||३१|| मार्थ कोऽभूद्विशालश्व कीर्तिरुत्त[म]धारकः । तथा श्री विश्वसेनश्च विश्वसेनां यथार्थवाक् ||३२| विश्व सेन पदाभोज बोधनै कदिवाकरः । विद्याभूषणसूरीन्द्र (द्रो) जीयताज्जगतीतले ||३३|| श्री वीरवदनोत्पन्नां नमामि शारदां वरा ।
पूर्वादिसंभूता गणेन्द्रशतधारिताम् ||३४|| चरित्रं शांतिनाथस्य वक्ष्येऽहं भक्तितो वरं । चक्रिणः स्वात्मरूपस्य स्म्यं स्वस्याऽमहानये ||३५||'
अन्तभाग :
काष्ठासंघाच्छे विमलतरगुणे सारनंदीतटांके । ख्याते विद्यागणे चै सकलबुधजनैः सेवनीये वरेण्ये । श्रीमच्छ्री रामसेनान्वयतिलकसमा नेमिसेनाः सुरेन्द्राः । भूयासुस्ते मुनीन्द्रा व्रतनिकरयुता भूमिपैः पूज्यपादाः ॥ ४५६ ॥ श्रीधर्मसेनो यतिवृन्दसेव्यः बिराजते भूवलये नितान्तं । decreasपि यथार्थनामा चारित्ररत्नाकर एव नित्यं ||४५७ ॥ ॥ बिशालकीर्तिश्व विशालकीर्तिर्जम्बूद्रुमा विमले सदैव । विभाति विद्यार्णव एव नित्यं वैराग्यपाथोनिधिशुद्धचेताः ॥४५८ ||