________________
१७७
शान्तिनाथपुराण-प्रशस्ति १७
११६. पुराणसार (श्रीचन्द्र मुनि) आदिमाग :नत्वादितः सकल तीर्थ कतः कृतार्थान् सर्वोपकारनिरतास्त्रिविधेन नित्यम् । वक्ष्ये तदीयगुणगर्भमहापुराणं संक्षेपतोऽर्थनिकरं शृणुत प्रयत्नात् ॥१॥ अन्तभाग :
धाराया पुरि भोजदेवनृपते राज्ये जयात्युचके (१) श्रीमत्सागरसेनतो यतिपतेर्शात्वा पुराणं महत् । मुक्त्यर्थे भवभीतिमीत्तजगता श्रीनन्दिशिष्यो बुधः
कुर्वे चारुपुराणसारममलं श्रीचन्द्रनामा मुनिः ॥१॥ श्रीविक्रमादित्यसंवत्सरे यशपूत्या(पंचाशीत्य १)धिकवर्षसहस्र (१०८५१) पुराणसाराभिधानं समातं।
१२०. शान्तिनाथ-पुराण (भ० श्रीभूषण) पादिभाग:
सिद्धं सिद्धार्थससिद्धिदायकं भुक्नेश्वर । वन्दे सर्वगुणोपेतं प्रारब्धार्थप्रसिद्धये ॥१॥
रामसेनादयो नम्बाः स्तुवेऽहं शानकोविदाः । पंचमे शानना(निनो)ऽतुल्याः दुर्मतध्वान्तनाशकाः ॥२४॥ नेमिसेनमुनीन्द्राय नमो नित्यं गुणात्मने । धर्माधर्मप्रदेशाय वादिने निष्कलात्मने ॥२५॥ अकलंककलाकम्र न्यायमागविशारद । वन्देऽहं दुर्मतध्वान्तनाशक सूर्यसन्निभ ॥२६॥ वाक्यं समन्तभद्रस्य दधेऽहं चित्तकैरवे । येन सूर्यायते नित्यं हृदयाम्बुजकोषके ॥२॥