________________
समवसरणपाठ-प्रशस्ति
१६१ श्रीमान्कि भरतेश्वरः किमथवा श्रेयान्नृपः श्रेयसा शक्रः किं किमु देवसूरिरनघः कि राजराजो महान् । यस्यालोकविधौ प्रसिद्धविबुधाः मंदिग्धभाजोऽभवन् सोऽयं श्रीभगवानसंघपतिराट प्रायश्चिरं जिन्य(नीय)ताम् ॥२५॥
तेन श्रीवरसंघराजभगवदासेन संपोषिता वाग्देवी बुधरूपचंद्रमभितः संप्रेयमाणाऽभवत् । श्रीसर्वशपदाबुजार्चनकृतौ कैवल्यकेलीमयं
चक्रे चारुपदावलीललितमाचार्यसा(?)विधि ॥३२॥ सात्वा श्रीमुनिपाणिनीयमतुलालंकारपारं दधत् षटतर्काविधिना(१) प्रपद्य श्रु(१)वृहत्तारादिकानागमान् । सिद्धान्तान् परिचित्य वाग्भटकृतामा(ना)शाधरी(म)द्भुता
बुध्वा वृत्तिमचीकरं किमपरं कैवल्यसंपूजनम् ॥३३॥ श्रीमत्संवत्सरेऽस्मिन्नरपतिनुतयद्विक्रमादित्यराज्येऽतीते गनदभद्राम(शु)कृत्परिमित(१६६२) कृष्णपक्षे ष(?)मासे। देवाचार्यप्रचारे शुभनवमतिथौ सिद्धयोगे प्रसिद्ध पौन-स्वित्पुडस्थे(?) समवसृत्तिमहं प्राप्तमाप्तासमाप्ति ||४||
अनेकतर्कसंकर्ष-प्रहर्षित-बुधोत्तमः स्वर्ध्वनीव यशस्फूतिर्जीयात श्रीप्रीतिवर्द्धनः ॥३५॥ जीयात् श्रीरूपचन्द्रश्चिरमिह महितः शन्दशास्त्रार्थधीरैः वीरः प्रशावतां यो बुधगण वनिता-गीयमानी यशोभिः । सदादे सर्वविद्यावरद इतिपदं विश्वलोके प्रसिद्ध विद्ववाधिदेवः प्रवरजिनमते स्रग्धराभ्यज़मानः ॥३६॥ चीयात् श्रीनेत्रसिंहोऽयं शाश्वशिष्यामणीमहान् । नित्यं नेत्रमिधाभाति विद्वज्जनवचो(मनो)हरः ॥३७॥