________________
भैरवपद्मावतीकल्प-प्रशस्ति १५१ गुरुजनकृतोपदेशो गततंद्रो निद्रया परित्यक्तः। परिमितभोजनशीलः स भवेदाराधको देव्याः॥१३॥ निजितविषयकषायो धर्मामृतजनितहर्षगतकायः। गुरुतरगुणसंपूर्णः स भवेदाराधको देव्याः ॥१४॥ शुचिः प्रसन्नो गुरुदेवभक्तो दृढव्रतः सत्यदयासमेतः ।
दक्षः पटु/जपदावधारी मंत्री भवेदीदृश एव लोके ॥१५॥ एते गुणा यस्य न संति पंसः क्वचित्कदाचिन्न भवेत्स मंत्री। करोति चेद्दपंवशात्स जाप्यं प्राप्नोत्यनर्थ फाणशेखरायाः ॥१६॥
इत्युभयभाषाकविशेखर-श्रीमल्लिषेणसूरिविरचिते भैरवपद्मावतीकल्पे मंत्रिलक्षणनिरूपकः प्रथमोऽधिकारः ।। चन्तभाग:
सकलनृपमुकुटघटितचरणयुगः श्रीमदजितसेनगणी। जयतु दुरितापहारी भव्यौषभवार्णवोत्तारी ॥५॥ जिनसमयागमवेदी गुरुतरसंसारकाननच्छेदी। कर्मेन्धन-दहनपटुस्तच्छिष्यः कनकसेनगणी ॥५८॥ चारित्रभूषितागो निःसंगो मथितदुर्जयाऽनंगः । तच्छिष्यो जिनसेनो बभूव भव्याजघर्मा शुः ॥५६॥ तदीयशिष्योऽनि मल्लिषणः सरस्वती-लब्धवरप्रसादः। तेनोदितो भैरवदेवतायाः कल्पः समासेन चतुःशतेन(४००) ॥६॥
यावदाधि-महीधर-तारागण-गगन-चन्द्र-दिनपतयः।
तिष्ठति तावदास्तां भैरवपद्मावतीकल्पः ॥६१।। इत्युभयभाषा-कविशेखरश्रीमल्लिषेणसूरिविरचिते भरैवपद्मावतीकल्पे गवडाधिकारो दशमः ॥