________________
जैनग्रन्य-प्रशस्तिसंग्रह
मूल मं.-कमठोपसर्गदलन त्रिभुवननाथं प्रणम्य पार्श्वजिनम् ।
वक्ष्येऽभीष्टफलप्रद-भैरवपद्मावतीकल्पम् ॥१॥ पाशफलवरदगजवशकरणकरा पद्मविष्टरा पद्मा। सा मा रक्षतु देवी त्रिलोचना रक्तपुष्पाभा ॥२॥ त्रोतला त्वरिता नित्या त्रिपुरा कामसाधनी । देव्या नामानि पद्मायास्तथा त्रिपुरभैरवी ॥३॥ पाशवज्रफलाभोजभृत्करा त्रोतलाया। शंखपद्माभया वरदा त्वरिताख्याऽरुणप्रभा ॥४॥ पाशाकुशपयोजातसाक्षमूल(माल)करा वरा। हंसवाहाऽरुणा नित्या जटा बालेन्दुमण्डिता ॥५॥ शूल-चक्र-कशांभोज-चाप-वाण-फलाकुशैः। राजिताऽष्टभुजा देवी त्रिपुरा ककुमप्रभा ॥६॥ शंख-पम-फलाभोजभृत्करा कामसाधनी। बन्धूकपुष्पसंकाशा कुक्कुटोरगवाहना ॥७॥ पाशचक्रधनुर्वाणखेटखड्गफलाम्बुजैः । लसद्भुजेन्द्रगोपाभा व्यक्षा त्रिपुरभैरवी ॥८॥ श्रादौ साधकलक्षणं सुसकला देव्यर्चनायाः क्रम पश्चाद्वादशयंत्रभेदकथनं स्तंभोऽङ्गनाकर्षणं । यंत्रं वश्यकरं निमित्तमपरं वश्यौषधं गारुडं वक्ष्येऽहं क्रमशो यथा निगदिताः कल्पेऽधिकारास्तथा ॥६॥ इति दशविद्याधिकारैर्ललितार्याश्लोकगीतिसद्धत्तैः । विरचयति मल्लिषेणः कल्प पद्मावतीदेव्याः ॥१०॥ निर्जितमदनाटोपः प्रशमितकोपो विमुक्तविकथालापः। देव्यर्चनानुरक्तो जिनपदभक्तो भवेन्मंत्री ॥११॥ मंत्राराधनशूरः पापविदूरो गुणेन गम्भीरः । मोनी महाभिमानी मंत्री स्यादीदृशः पुरुषः ॥१२॥