________________
rrr
जैन ग्रन्थ- प्रशस्तिसग्रह
सार्वः संतत - सनिसंधिनियतः पूर्वापरानुक्रमः शब्दांभोजदिवाकरोऽस्तु सहसा नः श्रेयसे यं ( १ ) च वै ॥ १ ॥ नमः श्रीवर्द्धमानाय महते देवनन्दिने । प्रभाचन्द्राय गुरवे तस्मै चाऽभयनन्दिने ||२||
६५. प्राकृतशब्दानुशासन, स्वोपज्ञवृत्तिसहित (कवि त्रिविक्रम)
आदिभाग :
श्रीवीरं प्राच्याचल - समुदितमखिलप्रकाशकं वन्दे । दिव्यध्वनिपदीधितिमहमक्षरपद्धतिप्राप्त्यै ॥१॥ श्रुतभर्तुरनन्दित्रैविद्यमुनेः पदाम्बुजभ्रमरः । श्रीवासकुलकमलद्यमणेरादिस्वशर्मणः पौत्रः ||२|| श्री मल्लिनाथ- पुत्रो लक्ष्मीगर्भामृताम्बुधिसुधाशुः । सोमस्य वृत्त-विद्या- घाम्नो भ्राता त्रिविक्रमस्तु कविः ॥३॥ श्री वीरसेन - जिनसे नार्यादिवचः पयोधिपूरात्कतिचित् । प्राकृतपदरत्नानि प्राकृतकृति - सुकृति - भूषणाय चिनोति ॥४॥ अनल्पार्थ सुखांचारश्शब्द साहित्य जीवितम् । स च प्राकृतमेवेति मतं मुक्तानुवर्तिनाम् ||५|| प्राकृतं तत्समं देश्यं तद्भव चेत्यदस्त्रिधा । तत्समं संस्कृतसमं नेयं संस्कृतलक्षणात् ॥६॥ देश्यमार्षे च रूढत्वात्स्वतंत्रत्वाच्च भूयसा । लक्ष्म नापेक्षते तस्य सम्प्रदायो हि बोधकः ||७|| प्रकृतेस्संस्कृतात्साध्यमानात्सिद्धाच्च यद्भवेत् । प्राकृतस्याऽस्य लक्ष्यानुरोधिलक्ष्म प्रवक्ष्महे ॥८॥ प्राकृतपदार्थसार्थप्राप्त्यै निजसूत्रमार्गमनुजिगमिषताम् । वृत्तिर्यथार्थसिद्धये त्रिविक्रमेणागमक्रमेण क्रियते ||६||