________________
श्वेताम्बरपराजय-प्रशस्ति कथा प्राकृतबधेन हरदेवेन या कृता। वक्ष्ये संस्कृतबंधेन भव्याना धर्मवृद्धये ॥५॥
इति श्रीठक्कुरमाइदसुत-जिनदेव विरचिते स्मरपराजये सुसंस्कृतबंधे मुक्तिस्वयवरो नाम पंचमः परिच्छेदः । अन्तभाग :
पाठयते यः शृणोतीदं स्तोत्रं स्मरपराजयं । तस्य ज्ञानं च मोक्षः स्यात् स्वर्गादीना च का कथा ॥१॥ तावद् दुर्गतयो भवन्ति विविधास्तावन्निगोद-स्थितिः तावत्सप्तसुदारुणा हि नरकास्तावद्दरिद्रादयः । तावद्दुःमहघोरमोहतमसाच्छन्नं मनः प्राणिना
यावन्मार-पराजयोद्भवकथामेता च शृण्वंति न ॥२॥ तथा च-शृणोति वा वक्ष्यति वा पठेत्तु यः कथामिमा मारपराजयोद्भवा ।
सोऽमंशय वै लभतेऽक्षयं सुरव शीघेण कायस्य कदर्थनं विना ||३|| अज्ञानेन धिया विना किल मिनस्तोत्रं मया यत्कृतं कि वा शुद्धमशुद्धमस्ति मकलं नैवं हि जान, म्यह । तत्सर्वं मुनिपंगवा: सुकवयः कुर्चतु सर्वे क्षमा संशोध्याशु कथामिमा स्वसमये विस्तारयंतु ध्रुवं ॥४॥
इति मदनपराजयं समाप्तं । ५५. श्वेताम्बरपराजय (कवि जगन्नाथ) आदिभाग:
बुभुक्षाद्या यमीशानं न हि दुःखयितुं क्षमाः । अनंतसुखसद्भावात्तस्मै श्री नेमये नमः ॥१॥ पदाबुज-मधुव्रतो भुवि नरेन्द्रकीर्तेर्गुरोः सुवादिपदभृद्बुधः प्रकरणं जगन्नाथवाक् ।