________________
355
६
जैनग्रन्थ- प्रशस्तिसंग्रह
दानिनां चक्रिणा तीर्थकृता शीलवतां सतो । राम कृष्ण-मनोज्ञाना कथा तच्छास्त्रमुच्यते || १४ | अमृताख्यपुराणेऽस्मिन कसाकल्यमुच्यते । मरीचिभवप्राचुर्याकुरः सम्यक्त्वसत्फलं ||१५|| बहुनां प्रेमयुक्तानां दानशीलवता व्रतं । कामदेवचरित्रं श्रीश्रीपालकथानकं ||१६|| तपः पूजा - भावानां कुभावाना कथानकं । शूराणा विरहाकान्तदेहिनो वृत्तमित्यलं ||१७|| [त्रिभिः ] कुलक । इति पुराणद्वारं अगाधोऽयं पुराणन्धिर्मतिर्मेऽल्या प्रवर्त्तते । तथापि तर्तुमिच्छामि गगनं पक्षिराडिव ॥ १८ ॥ सिद्धोक - नीतिसारादि-पुराणोद्भ तसन्मति । विधास्यामि प्रसन्नार्थे ग्रंथ संदर्भगर्भितं ॥ १६ ॥ स्वाभिरसवाणेन्दुश्लोकसंख्या (१५६३००) प्रसूत्रिता । नीतिसारपुराणस्य सिद्धसेनादिसूरिभिः ||२०| पूर्वाचार्योद्घृतं तत्त्वं निरीक्ष्य परमात्मनः । प्रसादेन सदानन्द करिष्यामि मनोज्ञ(ग) तं ॥ २१॥
X
X
X
X
इति श्रीकर्णामृतपुराणे धर्मशास्त्रे तत्त्वोद्धारे भ० श्रीरत्नभूषणाम्नायालंकार-ब्रह्मश्रीमंगलाग्रज-श्रीपूरमल्लापति-स्थविराचार्य श्रीकेशवसेन-विरचिते ब्रह्मवर्द्धमानसहाय्यसापेक्षे श्रीभगवदागमनं नाम प्रथमः स्कन्धः ॥१॥
अन्तभाग:
काष्ठासंघे गरिष्ठ प्रचलमुनियुते रामसेनो भदन्तः श्रीमानासीत् क्रमेणेन्दुकविशदयशा रत्नभूषाभिधानः । तत्पदाभोज गोविमलतरमतिः श्रीजयाद्यन्तकीर्तिराते विदजनाना प्रथम इह जिनाराधनैकस्वभावः ॥