________________
जैनग्रन्थ- प्रशस्तिसंग्रह
पद्म रविवद्विभाति विभासुरो भोगभवारिमेदी । श्री ज्ञानभूषो नरलोकलोक्यो लोकालोको तमलोकनेच्छः ॥३॥ विजयकीर्तियतिर्जगता गुरुर्गरिमगीर्गदितागिगणो गणी । गिरति गा गुणिनो गतयेऽग्रणीः सुगुरुणा रविगुः समगुः समः ॥४॥ पट्तर्कचंचुचरणोद्धतवादिमत्तमातङ्गकुम्भमदमेदनप चतुण्डः । श्रीमच्छुभेन्दुगणपो गुणगेय (?) कीर्तिश्चिन्तामणि विशदशब्दमयं चकार ॥५॥ शुभचन्द्रमुनीन्द्रेण लक्षणाब्धि विगाह्य वै ।
प्राकृतं लक्षणं चक्रे शब्द चिन्तामणौ स्फुटं || ६ | शब्दचिन्तामणि धीमान् योऽभ्येति धृतिसिद्धये ।
प्राकृतानां सुशब्दाना पारं याति सुनिश्चितं ॥७॥ प्राकृतं लक्षण रम्यं शुभचन्द्रेण भाषितं । योऽध्येति वै सुशब्दार्थधनराजो भवेन्नरः ||८||
इति मुमुक्षु भट्टारक- श्रीशानभूषणपट्रोदयाचल घुमणि-सकलताकिकचूडामणि भट्टारकश्री विजयकीत्तिपट्टद्म कट त्रैविद्यविद्या विशद भट्टारक श्री शुभचंद्रविरचिताया स्वोपज्ञराब्दचिन्तामणिवृत्तौ तृतीयस्याऽध्यायस्य चतुर्थपादः समाप्तः। समाप्तेट प्राकृतव्याकरणम् ||
४०. अध्यात्मतरङ्गिणी ( भ० शुभचन्द्र )
"
,
श्रदिभाग:
जयतु जितविपक्षः पालिताशेषशिष्यो विदितनिजस्वतत्त्वश्चोदितानेकसत्वः । अमृतविधुयतीशः कुन्दकुन्दो गणेशः श्रुतसुजिनविवादः स्याद्विवादाधिवादः ।।
अन्तभाग:--
सम्यक्संसारवल्लीवलय-विदलने मत्तमातङ्गमानी पापातापेभकुम्भोद्गमनकरा कुण्ठकण्ठीरवारिः विद्वद्विद्याविनोदा कलितमतिरहो मोहतामस्य सार्था (१) ... चिद्रूपोत सिचेता विदितशुभयतिर्ज्ञानभूषस्तु भूयात् ॥ २१॥