________________
श्रेणिक चरित्र - प्रशस्ति
जगति विजयकीर्तिः पुण्यमूर्तिः सुकीर्तिः जयतु च यतिराजों भूमिपैः स्पृष्टपादः । नय- नलिन - हिमाशुर्ज्ञान भूषस्य पट्टे विविध परविवादि- दमाघरे वज्रपातः ||२२|| तच्छिष्येण शुभेन्दुना शुभमनः श्रीज्ञानभावेन वै पूत पुण्य पुराणमानुषभवं संमारविध्वंसकः । नो कीर्त्या व्यरचि प्रमोहवशतो जैने मते केवलं नाहंकारवशात्कवित्तमतः श्रीपद्मनाभेहितं ॥ २३॥ इदं चरित्रं पठतः शिवं वै श्रोतुश्च पद्मश्वरवत्पवित्रं । भविष्णु संसारमुखं नृदेवं संभुज्य सम्यक्त्वफलप्रदीपं ||२४|| चंद्रार्क हेमगिरि-सागर-भू-विमानं
गंगा नदीगमन सिद्धशिलाश्च लोके ।
तिष्टंति यावदभितो वरमर्त्य शेवा ( देवा ? ) स्तिष्ठतु कोविदमनोम्बुजमध्यभूताः ||२५||
इति श्रीश्रेणिकभवानुबद्ध-भविष्यत्पद्मनाभपुराणे पंचकल्याणवर्णन नाम पचदशः पर्वः | १५||
३६. पाण्डवपुराण ( भ० शुभचन्द्र )
श्रदिभाग :
सिद्धं सिद्धार्थ सर्वस्वं सिद्धिदं सिद्धिसत्पटं । प्रमाण-नय-संभिद्ध सर्वज्ञ नौमि सिद्धये ||१|| वृषभ वृषभं भातं वृषभाकं वृषोन्नतं । जगत्सृष्टि-विधातारं वन्दे ब्रह्माणमादिमं ||२|| चन्द्राभं चन्द्रशोभादयं चन्द्रार्च्य चन्द्रसंस्तुतं । चन्द्रप्रभं सदाचन्द्रमीडे सच्चन्द्रलालने ||३||
४७